पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७१
एकादशः सर्गः।

  कौतूहलं तदनुभूय भूयः

   श्रद्धां पराशरपुराणकथान्तरेऽपि ॥ ३९ ॥

 स्पर्शेनेति ॥ तत्र शाकद्वीपे स चासौ तरुश्च तत्तरुः शाकः तस्य पत्रेभ्यो जन्म यस्य एवंभूतो मारुतः स्पर्शेन कृत्वा कमप्यपूर्वं संमदं हर्षमादधाति करोतीति यत् किल श्रूयते त्वं तत् कौतूहलमनुभूय भूयः पुनः पराशरपुराणस्य विष्णुपुराणस्य कथान्तरेऽप्याख्यानान्तरेऽपि श्रद्धामास्तिक्यबुद्धिं विधेहि कुरु ।'यत्पत्रवातसंस्पर्शादाह्लादो जायते परः' इति विष्णुपुराणवचनम्। अस्य श्रवणात्सत्यत्वं विद्यते। अनुभवादपि सत्यत्वं जानीहीत्यपि भूयःशब्दार्थः । भूयसी चासौ श्रद्धा चेति वा ॥

क्षीरार्णवस्तव कटाक्षरुचिच्छटाना-
[१] मन्वेतु तत्र विकटायितमायताक्षि ।
वेलावनीवनततिप्रतिबिम्बचुम्बि-
 किर्मीरितोर्मिचयचारिमचापलाभ्याम् ॥ ४० ॥

 क्षीरेति ॥ हे आयताक्षि विशालनयने, क्षीरार्णवः वेलावन्यां वेलाभूमौ वनततिर्वनपङ्क्तिः तस्याः प्रतिबिम्बचुम्बी प्रतिविम्वधारी । अत एव किर्मीरितः नानावर्णो जातः विचित्रित ऊर्मिचयस्तरङ्गसङ्घस्तस्य चारिमा सौन्दर्यं चापलं चञ्चलत्वं च ताभ्यां कृत्वा तव कटाक्षस्य रुचीनां कान्तीनां छटाः परम्परास्तासां विकटायितं विलसितमन्वेत्वनुकरोतु। क्षीरमयत्वात्स्वतः शुभ्राः दीर्घवृक्षप्रतिबिम्बसंबन्धाच्च नीलाः क्षीरोदतरङ्गास्त्वदीयश्वेतनीलविशालकटाक्षकान्तितुल्या भवन्त्वित्यर्थः । विकटायितम् , लोहितादेराकृतिगणत्वात्क्यषन्ताद्भाव निष्ठा[२]

[३]कल्लोलजालचलनापनतन पीवा
 जीवातनानवरतेन पयोरसेन ।
अस्मिन्नखण्डपरिमण्डलितारुमूर्ति-
 रध्यास्यते मधुभिदा भुजगाधिराजः ॥ ४१ ॥

 कल्लोलेति॥ अस्मिन्क्षीरोदे मधुभिदा श्रीविष्णुना भुजगाधिराजः शेषोऽध्यास्यतेऽधिष्ठीयते । किंभूतः शेषः- अनवरतेन भूयसा पयोरसेन दुग्धरसेन कृत्वा पीवा परिपुष्टः । किंभूतेन-कल्लोलजालस्य तरङ्गसङ्घस्य चलनेन कृत्वा उपनतेनान्तिकागतेन । तथा- जीवातुना प्राणधारणहेतुत्वाज्जीवनौषधभूतेन । किंभूतः-अखण्डं सर्वदा परिमण्डलिता


  1. 'अध्येतु' इति जीवातुस्थपाठः ।
  2. ‘अत्र किर्मीरितोर्मिचयस्य सितासितत्वसादृश्यात्तद्विलासस्य कटाक्षविलासस्मारकत्वात्तया स्मरणालंकारः' इति जीवातुः।
  3. अयमुत्तरश्च श्लोको जीवातु-सुखावधयोर्नास्ति ।