पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७३
एकादशः सर्गः।

मन्त्यास्तव दृश्यं दर्शनयोग्यमास्यं मुखं करम्बितमुदां संजातानन्दानां नॄणामुदयन्मृगाङ्क उदयावस्थश्चन्द्रस्तस्य शङ्कां भ्रमं सृजतु करोतु । किंभूतं मुखम- कश्मीरसंभवं कुङ्कुमं तस्य समारचनया उद्वर्तनेनाभिरामं रमणीयम् । उदयाचले आरक्तत्वदीयमुखदर्शनात् चन्द्र एवायमुदितः किमिति बुद्ध्या सर्वेषां हर्षो भविष्यति । तस्मादेनं वृणीष्वेति भावः । अनघजङ्घि, 'नासिकोदरौ-' इति ङीप् [१]

एतेन ते विरहपावकमेत्य ताव-
 त्कामं स्वनाम कलितान्वयमन्वभावि।
अङ्गीकरोषि यदि तत्तव नन्दनाद्यै-
 र्लब्धान्वयं स्वमपि नन्वयमातनोतु ॥ ४५ ॥

 एतेनेति ॥ हे भैमि, एतेन राज्ञा ते तव विरहपावकमेत्य प्राप्य कामं निश्चितं तावत्प्रथमं हव्य इति स्वनाम कलितान्वयमनुगतार्थमन्वभाव्यन्वभूयत । हव्येनाग्निं प्राप्य यथानुभूयते, तद्वदनेनानुभूतमित्यर्थः। अतो हूयते इति हव्यम् । यदि अधुना त्वमेनमङ्गीकरोषि वृणुषे तत्तर्हि अयं तव नन्दनाद्यैः पुत्रपौत्राद्यैः कृत्वा स्वमात्मानमपि लब्धान्वयं ननु निश्चितं प्राप्तवंशमातनोतु । ननु संबोधने वा । अन्वयः संबन्धो वंशश्च । यदीत्यनेन स्वीकारस्य पाक्षिकत्वं द्योतयति ॥

लक्ष्मीलतासमवलम्ब[२]भुजद्रुमेऽपि
 वाग्देवतायतनमञ्जुमुखाम्बुजेऽपि ।
सामुष्य दूषणमजीगणदे[३]कमेव
 नार्थी बभूव मघवा यदमुष्य देवः ॥ ४६॥

 लक्ष्मीति ॥ सा भैमी अमुत्र हव्ये एकमेव दूषणमजीगणत् । यत्- मघवा देवोऽमुष्य अर्थी याचको न बभूव । किंभूते -लक्ष्मीरूपाया लतायाः समवलम्ब आधारभूतो भुजलक्षणो द्रुमो यस्य तस्मिन्समृद्धराज्येऽपि । तथा वाग्देवतायाः सरस्वत्या आयतनं स्थानं मञ्जु सुन्दरं मुखाम्बुजं यस्य एवंविधेऽपि चतुःषष्टिकलाप्रवीणेऽपि । इन्द्रो नलस्य याचको जातो न त्वस्य । नलस्यास्य महदन्तरमित्यर्थः॥

लक्ष्मीविलासवसतेः सुमनःसु मुख्या-
 दस्माद्विकृष्य भुवि लब्धगुणप्रसिद्धिम्


  1. संदेहभ्रान्तिमतोरन्यतरोऽलंकारोऽस्तु' इति जीवातुः।
  2. ‘समवलम्ब्य-' इति सुखावबोधास्थपाठः
  3. 'तदेव' इत्यपि पाठः।