पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७४
नैषधीयचरिते

स्थानान्तरं तदनु निन्युरिमां विमान-
 वाहाः पुनः सुरभितामिव गन्धवाहाः ॥ ४७ ॥

 लक्ष्मीति ॥ विमानवाहाः अस्मात् राज्ञो विकृष्यापनीय तदनु तदनन्तरं पुनः स्थानान्तरं इमां भैमीं निन्युरन्यं राजानं प्रापयामासुः। के कस्मात्कामिव- गन्धवाहा वायवः सुमनःसु पुष्पेषु मुख्यात्पद्माद्विकृष्य सुगन्धितामिव । स्थानान्तरं नयन्ति तथेत्यर्थः । किंभूतादस्मात्-लक्ष्मीविलासस्य वसतेर्गृहात् । पद्ममपि तथा । तथा-सुमनःसु पण्डितेषु मुख्यात् । किंभूतामिमाम् - भुवि लब्धा गुणेन सौन्दर्यादिना प्रसिद्धिर्यया ॥

भूयस्ततो निखिलवाङ्मयदेवता सा
 हेमोपमेयतनुभासमभाषतैनाम् ।
एतं स्वबाहुबहुवारनिवारितारिं
 चित्ते कुरुष्व कुरुविन्दसकान्तिदन्ति ॥ ४८ ॥

 भूय इति ॥ ततः सा निखिलवाङ्मयदेवता हेमा नाम देवाङ्गना तदुपमेया तत्सदृशी तनुभाः कायकान्तिर्यस्यास्तामेनां सुवर्णसदृशकायकान्तिं वा भैमीं भूयोऽभाषत ऊचे । हे कुरुविन्दैः माणिक्यमणिभिः सकान्तयः सदृशा दन्ता यस्यास्तत्संबुद्धिः, त्वं स्वबाहुभ्यां बहुवारं निवारिता अरयो येन तमेतं पुरोवर्तिनं नृपं चित्ते कुरुष्व । वृणीष्वेत्यर्थः । 'स्वबाहु-' इत्यनेन परानपेक्षं शौर्यं सूचितम् । 'कुरुविन्द-' इत्यनेन बहुताम्बूलभक्षणाद्दन्तानामारक्तत्वं सूचितम् । सकान्तीत्यत्र सदृशशब्दपर्यायेण सहपदेनास्वपदविग्रहः समासः कार्यः । तत्र 'वोपसर्जनस्य' इति सभावः । दन्ती इत्यत्र संयोगोपधत्वेऽपि 'नासिकोदर-' इति ङीष् ॥

द्वीपस्य पश्य दयितं द्युतिमन्तमेनं
 क्रौञ्चस्य चञ्चलदृगञ्चलविभ्रमेण ।
यन्मण्डले स परिमण्डलसंनिवेशः
 पाण्डुश्चकास्ति दधिमण्डपयोधिपूरः ॥ ४९ ॥

 द्वीपस्येति ॥ हे भैमि, त्वं क्रौञ्चस्य द्वीपस्य दयितं पतिं द्युतिमन्नामानम् । अथच तेजस्विनं राजानं चञ्चलो यो दृगञ्चलः दिक्प्रान्तस्तस्य विभ्रमेण विलासेन कटाक्षेण पश्य । अनुरागेण पश्येत्यर्थः । यस्य राज्ञो मण्डले राज्ये क्रौञ्चद्वीपं परितो मण्डलो वर्तुलः संनिवेशोऽवस्थानं यस्य स प्रसिद्धः पाण्डुः शुभ्रो दधिमण्डसंज्ञकः पयोधिः तस्य पूरः प्रवाहश्चकास्ति । किल इति पुराणेषु श्रूयते-'क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन च । आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः' इति विष्णुपुराणम् । मरीचशर्करादिमिश्रं मस्तु इत्यपरपर्यायं किंचिद्द्रवीभूतदधि मण्डमित्युच्यते। मण्डं दधिभवं मस्तु' इत्यमरः॥