पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७५
एकादशः सर्गः।

तत्राद्रिरस्ति भवदङ्घ्रिविहारयाची
 क्रौञ्चः स्फुरिष्यति गुणानिव यस्त्वदीयान् ।
हंसावली कलकलप्रतिनादवाग्भिः
 स्कन्देषुवृन्दविवरैर्विवरीतुकामः ॥ ५० ॥

 तत्रेति ॥ तत्र द्वीपे स क्रौञ्चोऽद्रिः भवत्यास्तवाङ्घ्रिविहारश्चरणविलासगतिस्तं याचते एवंशीलोऽस्ति । स कः- यः त्वदीयान्गुणान्सौन्दर्यादीन् हंसावल्याः कलकलानां विरुतानां प्रतिनादः प्रतिशब्दः स एव वाग्येपामेवंभूतैर्मुखतुल्यैः स्कन्दस्य इषवो बाणास्तेषां वृन्दानि तैः कृतानि विवराणि छिद्राणि तैः कृत्वा विवरीतुं काम इव वर्णयितुकाम इव स्फुरिष्यति । स्कन्देन बाणैः पर्वते छिद्राणि कृतानि, तेन क्रौञ्चदारण इति तस्य नाम जातमिति पुराणम् ॥

वैदर्भि दर्भदलपूजनयापि यस्य
 गर्भे जनः पुनरुदेति न जातु मातुः ।
तस्यार्चनां रचय तत्र मृगाङ्कमौले-
 स्तन्मात्रदैवतजनाभिजनः स देशः ॥ ५१ ॥

 वैदर्भीति ॥ हे वैदर्भि भैमि, जनो यस्य दर्भदलेन या पूजना तयापि मातुर्गर्भे जातु कदाचिदपि पुनर्नोदेति नोत्पद्यते । तन्मात्रेणैव मुक्तत्वात्पुनः संसारं न यातीत्यर्थः । पुष्पादिपूजया पुनर्नोदेतीति किं वाच्यमित्यपेरर्थः । त्वं तत्र देवे तस्य हरस्यार्चनां पूजां रचय । यतः स देशः स एव तन्मात्रं शिव एव दैवतं येषां ते जनाश्च तेषामभिजन उत्पत्तिस्थानम् । तस्मात्त्वमपि तं पूजयेत्यर्थः । 'कुलेऽप्यभिजनो जन्मभूमावप्यथ हायनाः' इत्यमरः॥

चूडाग्रचुम्बिमिहिरोदयशैलशील-
 स्तेनाः स्तनंधयसुधाकरशेखरस्य।
तस्मिन्सुवर्णरसभूषणरम्यहर्म्य-
 भूभृद्धटा घटय हेमघटावतंसाः ॥ ५२ ॥

 चूडाग्रेति ॥ तस्मिन्द्वीपे स्तनंधयो बालः सुधाकरश्चन्द्रः शेखरे मौलौ यस्य शिवस्य सुवर्णरस एव भूषणमेषामेवंभूतानि । अतएव रम्याणि यानि हर्म्याणि तान्येव भूभृतः पर्वतास्तेषां घटाः परम्पराः घटय रचय । किंभूताः हेमघटावतंसाः उपरि सुवर्णकलशभूषिताः। अत एव चूडाग्रचुम्बी शृङ्गाग्रे स्थितः सूर्यो यस्य एवंभूत उदयशैलस्तस्य शीलं स्वभावः स्वरूपं तस्य स्तेनाश्चौराः। शिवप्रीत्यर्थमुदयाचलतुल्यान्प्रासादान् रचयेति भावः। घटयेति मित्त्वाद्ध्रस्वः॥