पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७६
नैषधीयचरिते

तस्मिन्मलिम्लुच इव स्मरकेलिजन्म-
 घर्मोदबिन्दुमयमौक्तिकमण्डनं ते ।
जालैर्मिलन्दधिमहोदधिपूरलोल-
 कल्लोलचामरमरुत्तरुणि च्छिनत्तु ॥ ५३ ॥

 तस्मिन्निति ॥ भो तरुणि प्रादुर्भूतयौवने, तस्मिन्देशे जालैर्गवाक्षैः मिलन्नागच्छन् दध्नो महोदधिस्तस्य पूरः तस्य लोलाः कल्लोलास्त एव शुभ्रत्वाद्दैर्घ्याच्च चामराणि तेषां मरुत् मलिम्लुचश्चौर इव स्मरकेलेर्जन्म येषां ते घर्मोदबिन्दवः तन्मयानि मौक्तिकानि तद्रूपं मण्डनं छिनत्त्वपनयतु अपहरतु । शीतलवायुसंस्पर्शात्सुरतश्रमजातं घर्मोदकं शाम्यत्वित्यर्थः । चौरोऽप्यपरद्वारेण प्रविश्य मुक्ताद्याभरणं हरति । उदबिन्द्वित्यत्र 'मन्थौदन-' इत्युदादेशः॥

एतद्यशो नवनवं खलु हंसवेषं
 वेशन्तसंतरणदूरगमक्रमेण ।
अभ्यासमर्जयति संतरितुं समुद्रा-
 न्गन्तुं च निःश्रममितः सकलान्दिगन्तान् ॥ ५४ ॥

 एतदिति ॥ हंसस्य वेष आकारो यस्य नवनवं प्रतिदिनमपूर्वं भवत् एतस्य यशः वेशन्तस्य पल्वलस्य संतरणदूरगमनयोः क्रमेण परिपाट्या, पल्वलस्य संतरणे विषये दूरगमक्रमेण पूर्वं सरसोऽर्धं पश्चात्कियदधिकं ततोऽपि परतीरं अनया परिपाट्या वा समुद्रान्संतरीतुमुत्तरीतुं इतः समुद्रेभ्य एतद्देशाद्वा निःश्रमं श्रमरहितं यथातथा सकलान्दिगन्तान्दिक्प्रान्तांश्च गन्तुं प्राप्तु मभ्यासमर्जयति । खलु निश्चये उत्प्रेक्षायां वा । श्वेतत्वाद्धंसानां तद्रूपं यशसा धृतम् । हंसा न भवन्ति किं त्वेतद्यश एव । अन्योऽपि महानद्यादितरणार्थं वाप्यादौ तरणेनाभ्यासं करोति । नवं चाभ्यासयोग्यं भवति वालाभ्यासो हि दृढतर इत्यर्थः । नवनवमिति प्रकारे द्विरुक्तिः । अर्जयतीति वर्तमानप्रयोगाद्यशसोऽल्पत्वसूचनादस्मिन्ननादरः सूचितः॥

तस्मिन्गुणैरपि भृते गणनादरिद्रै-
 स्तन्वी न सा हृदयबन्धमवाप भूपे ।
दैवे निरुन्धति निबन्धनतां वहन्ति
 हन्त प्रयासपरुषाणि न पौरुषाणि ॥ ५५॥

 तस्मिन्निति ॥ सा तन्वी भैमी गणनादरिद्रैरसंख्यैर्गुणैः भृते पूर्णेऽपि तस्मिन्भूपे द्युतिमति हृदयबन्धं मनोऽभिलाषं नावाप । गुणवति तस्मिन्कथं न प्रापेत्यत आह-दैवे