पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७७
एकादशः सर्गः।

निरुन्धति कार्यप्रतिबन्धके सति प्रयासेन युद्धादियत्नेन परुषाणि दुःसहान्यपि पौरुषाणि पुरुषकाराः कार्यं प्रति निबन्धतां कारणतां न वहन्ति न धारयन्ति । हन्त खेदे। दैवनिरोधाद्गुणवत्ताप्यनुरागहेतुर्नाभूदित्यर्थः । वागुरादिगुणेषु हरिणादिर्बन्धनं प्राप्नोति । अस्यास्तु हृदयं गुणेषु पतितमपि बन्धनं न प्रापेत्याश्चर्यमित्यर्थः ॥

ते निन्यिरे नृपतिमन्यमिमाममुष्मा-
 दंसावतंसशिबिकांशभृतः पुमांसः ।
रत्नाकरादिव तुषारमयूखलेखां
 लेखानुजीविपुरुषा गिरिशोत्तमाङ्गम् ॥ ५६ ॥

त इति ॥ अंसयोः स्कन्धयोरवतंसा भूषणीभूताः शिविकांशास्तान्बिभ्रति ते पुमांसो यानवाहाः इमां भैमीममुष्माद्राज्ञः सकाशादन्यं नृपतिं निन्यिरे । तत्र दृष्टान्तः--लेखा देवा एवानुजीविपुरुषाः सेवकपुरुषा रत्नाकरात्तुषारमयूखलेखां चन्द्रकलां गिरिशोत्तमाङ्गं शंकरमूर्धानमिव । 'लेखा अदितिनन्दनाः' इत्यमरः॥

एकैकम[१]द्भुतगुणं धुतदूषणं च
 हित्वान्यमन्यमुपगत्य परित्यजन्तीम् ।
एनां जगाद जगदञ्चितपादपद्मा
 पद्मामिवाच्युतभुजान्तरविच्युतां सा ॥ ५७ ॥

एकैकमिति ॥ जगदञ्चितपादपद्मा त्रिलोकीपूजितचरणकमला सा सरस्वती एनां भैमीं जगाद । किंभूताम्-अद्भुता गुणा यस्य तम्, तथा- धुतदूषणं गतदूषणमेकैकं नृपं हित्वा अन्यमन्यं तादृशमेव नृपमुपगत्य प्राप्य परित्यजन्तीम् । तथा-अच्युतभुजान्तराद्विष्णुवक्षःस्थलाद्विच्युतां समागतां पद्मां लक्ष्मीमिव स्थिताम् । लक्ष्मीरपि चाञ्चल्यादेकैकं त्यक्त्वान्यमन्यं प्राप्य तमपि त्यजति । यथा लक्ष्मीर्विष्णुं विनान्यत्र स्थिरा न, तथा भैमी नलं विनान्यत्र स्थिरा नेति सूचितम् ॥

ईशः कुशेशयसनाभिशये कुशेन
 द्वीपस्य लाञ्छिततनोर्यदि वाञ्छितस्ते ।
ज्योतिष्मता सममनेन वनीघनासु
 तत्त्वं विनोदय घृतोदतटीषु चेतः ॥ ५८ ॥

ईश इति ॥ हे कुशेशयं कमलं तस्य सनाभी तत्तुल्यौ शयौ हस्तौ यस्याः तत्संबुद्धिः,


  1. उद्गतगुणम् ।