कुशेन कुशस्तम्बेन लाञ्छिततनोः चिह्नितवपुषो द्वीपस्य ईशः स्वामी यदि ते तव वाञ्छितोऽभीष्टस्तत्तर्हि त्वं ज्योतिष्मतानेन राज्ञा समं सह वनीभिर्वनैर्घनासु निबिडासु घृतोदो घृतसमुद्रस्तस्य तटीषु चेतो विनोदय हर्षय । निबिडच्छायेषु घृतसमुद्रतटेषु एतेन सार्धं विहर । एनं वृणीष्वेति भावः। घृतोद इति 'उदकस्योदः संज्ञायाम्' इत्युदादेशः। कुशेशय इति 'शयवास-' इत्यलुक् ॥
वातोर्मिदोलनचलद्दलमण्डलाग्र- |
वातेति ॥ हे भैमि, तत्र द्वीपे नेत्रनिपीयमानः नेत्राभ्यां सादरमवलोक्यमानः कुशस्तम्बः तव चित्रायाश्चर्याय भविता । किंभूतः -अम्बरचुम्बिचूडो गगनलग्नशिखः। तथा– अत एव वातोर्मीणां वातपरम्पराणां यद्दोलनं तेन चलन्ति चञ्चलानि दलानि पत्राणि तान्येव मण्डलाग्राः खड्गास्तैर्भिन्नं विदारितं यदभ्रमण्डलं तस्माद्गलता स्रवता जलेन जातः सेकः सेचनं यस्य । दलमण्डलस्य दलसमूहस्य अग्रैरिति वा ॥
पाथोधिमाथसमयोत्थितसिन्धुपुत्री- |
पाथोधीति ॥ हे इन्दुमुखि, तत्र कुशद्वीपे त्वं मन्दरकन्दरासु पत्या सह विहारमयैः क्रीडाबहुलैः कटाक्षविक्षेपादिभिर्विलासैरानन्दमावह धारय । किंभूतासु-पाथोधेः समुद्रस्य माथसमये मन्थनकाले उत्थिता या सिन्धुलक्ष्मीस्तस्याः पत्पङ्कजार्पणेन पवित्राणि शिलातलानि यासु । लक्ष्मीवत्त्वमपि शिलासोपानान्यलंकुर्वित्यर्थः। 'विहारभवैः' इति पाठे सुरतादिक्रीडासमुत्पन्नैरित्यर्थः ॥
अरोहणाय तव सज्ज इवास्ति तत्र |
आरोहणायेति ॥ हे कनककेतकं स्वर्णकेतकं तस्य गोत्रं सदृशं गात्रं यस्यास्तत्संबुद्धिः अतिगौरि, तत्र द्वीपे अब्धेः क्षुब्धाचलो मन्थाचलो मन्दरः तव आरोहणाय सज्जः सं-