पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८१
एकादशः सर्गः।

अस्यारिनिष्कृपकृपाणसनाथपाणे:
 पाणिग्रहादनुगृहाण गणं गुणानाम् ॥ ६६ ॥

 देवीति ॥ पवित्रितः शोभितः चतुर्भुजवामभागो यया एवंभूता वाग्रूपा देवी पुनरिमां भैमीमालपदुवाच । किंभूताम्-गरिम्णा कुलशीलसौन्दर्यादिगौरवेण सरस्वत्यागमनाद्वा गौरवेण अभिरामां मनोज्ञाम् । हे भैमि, अरिषु निष्कृपः कृपाणेन खड्गेन सनाथो युक्तः पाणिर्यस्य एवंभूतस्यास्य पाणिग्रहात्परिणयात्स्वीयं गुणानां सौन्दर्यादीनां गणम् । अस्य गुणसङ्घं वानुगृहाण । तुल्यगुणस्यास्य लाभात् ॥

द्वीपस्य शाल्मल इति प्रथितस्य नाथ:
 पाथोधिना वलयितस्य सुराम्बुनायम् ।
अस्मिन्वपुष्मति न विस्मयसे गुणाब्धौ
 रक्ता तिलप्रसवनासिकि नासि किं वा ॥६७ ॥

 द्वीपस्येति ॥ सुरा एव मदिरैवाम्बु यस्य एवंभूतेन पाथोधिनाधिना वलयितस्य वेष्टितस्य शाल्मल इति प्रथितस्य द्वीपस्य पतिरयम् । हे तिलस्य प्रसवः पुष्पं तत्समाननासिकि, त्वं गुणाब्धौ गुणसमुद्रे वपुष्मन्नामनि । अथ च सुन्दरशरीरेऽस्मिन्राजनि न विस्मयसेऽद्भुतं किमिति न प्राप्नोषि । अपि त्वाश्चर्यं प्राप्तुमुचितम् । एवंविधेऽस्मिन् रक्ता वा किं नासि । अपि तु रक्ता भव । एनं वृणीष्वेत्यर्थः । सुरासमुद्रपतित्वं दोपः । शरीरधारिणि गुणसमुद्रे विस्मयो युक्तः । वपुष्मति, अतिशायने मतुप् । नासिकीति, 'नासिकोदर-' इति ङीष् ॥

विप्रे धयत्युदधिमेकतमं त्रसत्सु
 यस्तेषु पञ्चसु बिभाय न सीधुसिन्धुः ।
तस्मिन्ननेन च निजालिजनेन च वं
 सार्धं विधेहि मधुरा मधुपानकेलीः ॥ ६८ ॥

 विप्र इति ॥ यः सीधुसिन्धुः सुरासमुद्रः विप्रेऽगस्त्ये एकतमं क्षारजलधिं धयति पिबति सति तेषु पञ्चसु दधिमण्डादिसमुद्रेषु अस्मानयं पास्यतीति त्रसत्सु सत्सु न बिभाय तत्रसे । ब्राह्मणस्य सुरापाननिषेधात् मां न पास्यतीति यो भयं तत्याज । त्वं तस्मिन्नक्षये सीधुसमुद्रेऽनेन च राज्ञा सार्धं निजालिजनेन च सार्धं मधुरा रस्या मधु- पानकलीः मधुपानक्रीडाः विधेहि कुरु । एतद्वरणे मधुपानं सुलभम् ॥

द्रोणः स तत्र वितरिष्यति भाग्यलभ्य-
 सौभाग्यकार्मणमयीमुपदां गिरिस्ते ।