पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८८
नैषधीयचरिते

जाम्बूनदं जगति विश्रुतिमेति मृत्स्ना
 कृत्स्नापि सा तव रुचा विजितथि यस्याः।
तज्जाम्बवद्रवभवास्य सुधाविधाम्बु-
 र्जम्बूसरिवहति सीमनि कम्बुकण्ठि ॥ ८६ ॥

 जाम्बूनदमिति ॥ भोः कम्बुकण्ठि शङ्खवद्रेखात्रययुतकण्ठि, रेखात्रयाङ्किता ग्रीवा कम्वृग्रीवेति कथ्यते' इति हलायुधः । सा जम्बू सरित् अस्य जम्बूद्वीपस्य सीमनि मर्यादायां वहति । किंभूता-तस्या जम्ब्वाः जाम्बवानि फलानि तेषां द्रवो रसः तस्माद् भवा जाता । तथा-सुधाया विधा प्रकारो यस्य तादृशमम्बु यस्याः। पीयूषतुल्यजला। सा का-यस्या जम्बूनद्याः कृत्स्ना सकलापि मृत्स्ना प्रशस्ता मृत्तिका जगति तव रुचा कान्त्या विजितश्रि जितशोभं जम्बूनद्या इदं जाम्बूनदं सुवर्णमिति विश्रुतिमेति । यन्मृत्तिका उत्तमं सुवर्णं, तदपि त्वदङ्गकान्त्या जितम् । 'प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका' इत्यमरः । 'मृदस्तिकन्' 'सम्नौ प्रशंसायाम्' इति स्नप्रत्ययः। जाम्बवम्, 'जम्ब्वा वा' इत्यण् । कम्बुकण्ठी 'अङ्गगात्रकण्ठेभ्यः-' इति ङीष् ॥

[१] अस्मिञ्जयन्ति जगतीपतयः सहस्र-
 मस्रास्रुसार्दरिपुतद्वनितेषु तेषु ।
रम्भोरु चारु कतिचित्तव चित्तबन्धि-
 रूपान्निरूपय मुदाहमुदाहरामि ॥ ८७ ॥

 अस्मिन्निति ॥ अस्मिन्द्वीपे सहस्रमनेके जगतीपतयो राजानो जयन्ति सर्वोत्कर्षेण वर्तन्ते| हे रम्भोरु, अस्रास्रुभ्यां रक्तनेत्राम्बुभ्यां यथाक्रमं सार्दा रिपवस्तेषां वनिताश्च येषां तेष्वतिशूरेषु राजसु मध्येऽहं कतिचिद्रानज्ञ उदाहरामि चारु वदामि । त्वं चारु वा तान् मुदा निरूपय पश्य । किंभूतान्‌- तव चित्तबन्धिरूपान्मनोहारिसौन्दर्यान् ॥

प्रत्यर्थियौवतवतंसतमालमालो-
 न्मीलतमःप्रकरतस्करशौर्यसूर्ये ।
अस्मिन्नवन्तिनृपतौ गुणसतताना
 विश्रान्तिधामनि मनो दमयन्ति किं ते ॥८४॥

 प्रत्यर्थीति ॥ हे दमयन्ति, गुणसंततीनां सौन्दर्यादिगुणसङ्घानां विश्रान्तिधामानि विश्रान्तिस्थानेऽसिन्नवन्तिनृपतौ मनः किं वर्तत इति शेषः। किंभूते-प्रार्थनां यौवतं


  1. तस्मिन्' इति जीवातुसंमतः पाठः