पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८९
एकादशः सर्गः।

 स्त्रीसमूहः तस्य वतंसभूतास्तमालमाला एवोन्मीलन्ति प्रकटीभूतानि तमांसि तेषां प्रकरः समूहस्तस्य तस्करो विनाशकः शौर्यमेव सूर्यो यस्य । वैरिणां मृत्युरूपः । वीरानुरागिण्यो हि योषित इति प्रायेणास्मिन्ननुरक्तासीति मम प्रतिभातीति युक्तमिति भावः॥

तत्रानुतीरवनवासितपस्विविप्रा
 शिप्रा तवोर्मिभुजया जलकेलिकाले।
आलिङ्गनानि ददती भविता वयस्या
 हास्यानुबन्धिरमणीयसरोरुहास्या ॥ ८९ ॥

 तत्रेति ॥ तत्र अवन्त्यां शिप्रा नदी तव वयस्या सखी भविता भविष्यति । (किंभूता-) अनुतीरं तीरसमीपे वनेषु वासिनस्तपस्विनो विप्रा यस्याः । तथा जलकेलिकाले जलक्रीडासमये ऊर्मिभुजया तरङ्गबाहुना तवालिङ्गनानि ददती । तथा हास्यस्य विकारस्यानुबन्धो नैरन्तर्यं तेन रमणीयं सरोरुहं कमलमेवास्यं यस्याः। तीरमनु समया तीरवदायतानि वेति 'अनुर्यत्समया' 'यस्य चायामः' इति वाव्ययीभावः ॥

अस्याधिशय्य पुरमुज्जयिनीं भवानी
 जागर्ति या सुभगयौवतमौलिमाला ।
पत्याऽर्धकायघटनाय मृगाक्षि तस्याः
 शिष्या भविष्यसि चिरं वरिवस्ययाऽपि ॥ ९०॥

 अस्येति ॥ हे मृगाक्षि, या भवानी पार्वती अस्य उज्जयिनीं पुरमधिशय्याधिष्टाय जागर्ति स्फुरद्रूपा वर्तते । किंभूता-सुभगं सुन्दरं यौवतं स्त्रीवृन्दं तस्य मौलिमाला शिरोमाला| त्वं तस्या भवान्या वरिवस्यया शुश्रूषया एतेन पत्या अर्थकायघटनाय शिप्यापि भविष्यसि । एतद्वरणेन प्राणेशार्धशरीरत्वं सुलभमित्यर्थः । रूपेण शिष्या जातैव सेवयापि शिष्या भविष्यसीति चापेरर्थः। स्वीयं प्राणेशार्धत्वं तवापि करिष्यतीत्यर्थः। पुरम् 'अधिशीङ्' इत्याधारस्य कर्मत्वम् । भवानी 'इन्द्रवरुण-' इति पुंयोगे ङीषानुक्क्र ॥

निःशङ्कमङ्कुरिततां रतिवल्लभस्य
 देवः स्वचन्द्रकिरणामृतसेचनेन ।
तत्रावलोक्य सुदृशां हृदयेषु रुद्र-
 स्तद्देहदाहफलमाह स किं न विद्मः ॥ ९१ ॥

 निःशङ्कमिति ॥ तत्रोज्जयिन्यां स देवो रुद्रः स्वचन्द्रकिरणामृतसेचनेन सुदृशां हृदयेषु रतिवल्लभस्य कामस्य निःशङ्क निर्भयमङ्कुरिततां प्रादुर्भावमवलोक्य तद्देहदाहस्य