पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५११

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९०
नेयधीयचरिते

फलं प्रयोजनं किमाह किं ब्रूते वयं तत् न विद्मः । तत्रत्याः स्त्रियः सर्वदा सकामा दृष्ट्वा मया कृतः कामदाहो व्यर्थ एव जात इत्यर्थः । पुनः सहस्रधोत्पतेः ॥

आगःशतं विदधतोऽपि समिड्वकामा
 नाधीयते परुषमक्षरमस्य वामाः।
चान्द्री न तत्र हरमौलिशयालुरेका
 ऽनध्यायहेतुतिथिकेतुरपैति लेखा ॥ ९२ ॥

 आग इति ॥ वामाः स्त्रियः आगःशतं सपत्नीसंभोगादिनापराधसहस्रं विदधतोऽपि कुर्वतोऽप्यस्य राज्ञः परुषं निष्ठुरमक्षरं नाधीयते न ब्रुवते । यतः-समिद्धकामाः । सकामत्वादस्यापराधं न गणयन्तीति भावः । वामा इत्यनेन वक्रस्वभावत्वात्परुषभाषणयोग्यत्वेऽपि सकामत्वान्नोचुरित्यर्थः । अनध्याये हेतुमाह-तत्रोज्जयिन्यां हरमौली शयालुः स्थिता अनध्यायहेतुस्थितिः प्रतिपत् तस्याः केतुश्चिह्नं चान्द्री एका लेखा कला नापति न गच्छति । सदा तत्र शंभोः सत्वाच्चन्द्रकलाया अपि सत्त्वाच्चन्द्रकलादर्शनासमुत्पन्नकामाः सत्यः परुयं न भाषन्त इति भावः। अथ च 'प्रतिपत्पाठशीलस्य' इति वचनान्सर्चानध्यायापेक्षया प्रतिपदो मुख्यत्वम् । सर्वास्वपि तिथिषु शुक्ल प्रतिपद्बुद्धेरक्षरमपि न पठन्तीति युक्तमित्यर्थः । आगःशतकारित्वमेवास्य दोषः ॥

भूपं व्यलाकत न दूरतरानुरक्त
 सा कुण्डिनावनिपुरंदरनन्दिनी तम् ।
अन्यानुरागविरसेन विलोकनाड्वा
 जानामि सम्यगविलोकनमेव रम्यम् ॥ ९३ ॥

 भूपमिति ।। सा कुण्डिनावनिपुरंदरस्य भीमस्य नन्दिनी पुत्री दूरतरं सुतरामनुरक्तम् (अपि) सानुरागमपि तं भूपं न व्यलोकयत् । वा यस्मादन्यस्मिन्नलेऽनुरागेण तदतिरिक्ते विरसेन विगतेन रसेन अननुरागेण विलोकनात् विलोकनापेक्षयाविलोकनं सर्वथानवेक्षणमेव रम्यं श्रेष्ठं जानामि मन्ये । यत्रानुरागो नास्ति तद्विलोकनेनापि प्रयोजनं नास्तीत्यर्थः॥

भैमीङ्गितानि शिबिकामधरे वहन्तः
 साक्षान्न यद्यपि कथंचन जानते स्म ।
[१]जज्ञुस्तथापि सविधस्थितसंमुखीन-
 भूपालभूषणमणिप्रतिबिम्बितेन ॥ ९४ ॥


  1. 'ऊहुः' इति सुखाववोधासंमतः पाठः