भैमीति ॥ अधरेऽधोभागे शिविकां वहन्तो दधाना भैमीङ्गितानि जृम्भणादीनि अननुरागचिह्नानि यद्यपि साक्षात् कथंचन केनापि प्रकारेण न जानते स्म, तथापि सविधे समीपे स्थिताः संमुखीना भूपालास्तेपां भूपणमणिपु रत्नादिपु प्रतिविम्बितेन हेनुना जज्ञुः । अननुरागचिह्नानि प्रतिविम्ववशाजानते स्मेत्यर्थः । संमुखं दृश्यतेऽस्मिन्नि- त्यत्र प्रतिबिम्बाधिकरणे रत्नादौ 'यथामुखसंमुखस्य दर्शनः खः' इति खः । भूपणमणीनां विशेषणं वा॥
भैमीमवापयत जन्यजनस्तदन्यं |
भैमीमिति ॥ जन्यजनः वाहकसङ्घः भैमीं तस्मादन्यं नृपमवापयत । कः कां किमिव-रघुवंशदीपो भगीरथः गङ्गां क्षितितलमिव । किंभूतां भैमीं गङ्गां च-गाङ्गेयं सुवर्ण तद्वत्पीतं गौरं कुचकुम्भयुगं यस्याः। गाङ्गेयाभ्यां स्कन्दभीष्माभ्यां पीतं कुचकुम्भयुगं यस्या उभयोः पुत्रत्वात् । तथा हारो मुक्ताभूपणं कण्ठस्थितम् , चूडा बाहुभूषणं शिरःस्थितं वा भूषणं तयोः समागमवशेन विभूषितां शोभमानाम् । हरस्येयं हारी चूडा शिरोभागस्तस्याः समागमवशेन विभूषितामलंकृताम् । विशेषेण भुवि उपितां च । गाङ्गेयः 'स्त्रीभ्यो ढक्' । हारी चासौ चूडा च । पुंवद्भावः ॥
तां मत्स्यलाञ्छनद[१]राञ्छितचापभासा |
तामिति ॥ भाषितस्य वाच ईशा वाणी तां भैमीमभाषत । किंभूताम्-मत्स्यलाञ्छनेन कामेन दरं ईषदाञ्छितस्याकृष्टस्य चापस्य भासा कान्त्या नीराजिते भ्रुवौ यस्यास्ताम् । किमुवाचेत्यत आह-हे व्रीडाजडे लज्जयाप्रगल्भे, इहास्मिन्गौडविडौजसि गौडदेशाधीशे गौडेन्द्रे चेतसा चेत् क्रीडारसमुपभोगेच्छां वहसि लज्जया साक्षाच्चेन्न कथयसि तथापि किमपि कटाक्षादिना मां सूचय बोधय। ततोऽहमेनं वर्णयिष्यामीति॥
एतद्यशोभिरमलानि कुलानि भासां |
- ↑ 'दराञ्चित'-इति जीवातुसुखावबोधासंमतः पाठः ॥