सख्यशिक्षायां सादृश्याभ्यासे निष्णाता निपुणा दृष्टिः। विकसितकमलतुल्येत्यर्थः । तया तस्या वा परिरम्भविजृम्भितान्यालिङ्गनविलासान्निर्भरं सुतरामारभस्व । एनं सा- दरमवलोकयेति भावः ॥
प्रत्यर्थिपार्थिवपयोनिधिमाथमन्थ- |
प्रत्यर्थीति ॥ हे भैमि, अयं पृथुनामा मथुराया अधिनाथो राजा । किंभूतः-प्रत्यर्थिपार्थिवाः शत्रुनृपास्त एव पयोनिधयस्तेषां माथे मथने मन्थपृथ्वीधरः मन्थशैलो मन्दरः । तथा-शर्वरीशश्चन्द्रः अस्याश्मश्रुजातमनुत्पन्नश्मश्रु कचरहितं वदनाजं नानुयाति नानुकरोति । यतः -श्यामेनाङ्केन कलङ्केन कर्बुरं विचित्रं वपुर्यस्य । सकलङ्क- श्चन्द्रः श्मश्रुरहितैतन्मुखचन्द्रतुल्यो न भवतीत्यर्थः । वयःसंधौ वर्तत इति भावः । न जातं श्मश्रु यस्मिन् , 'वाहिताग्न्यादिषु' इति परनिपातः । पार्थिव इति, 'तत्र विदितः' इत्यण् ॥
वालेऽधराधरितनैकविधप्रवाले |
वाल इति ॥ हे अधरेणोप्टेनाधरितानि जितान्यनेकविधानि नानाजातीयानि प्रवालानि पल्लवा विद्रुमा वा यया । तथा-वाले त्वं अस्य राज्ञः पाणौ जगद्विजयस्य कार्मणं वशीकरणं मणिं कङ्कणरत्नं पश्य । किंभूतं मणिम्-ज्याघातजेन किणेनोपरज्य श्यामीभूय रिपुराजकस्य रिपुनृपवृन्दस्य तदर्थं धूमकेतुतारायमाणं धूमकेतुनक्षत्रवदाचरितम् । धूमकेतुनक्षत्रमुदितं सद्यथा राजक्षयं करोति तथेति । नैकविधं विविध प्रवालं ययेति वा । रिपवश्च तद्राजकं च । अन्यथा आदिवृद्धिः स्यात् । संज्ञापूर्वकविधेरनित्यत्वाव्दद्ध्यभावः॥
एतद्भुजारणिसमुद्भवविक्रमाग्नि- |