पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९५
एकादशः सर्गः।

 एतदिति ॥ धनुर्गुणकिणः ज्याघातजः किणः एतस्य भुज एवारणिर्वन्ह्युत्पत्तिकाष्टं तस्मात्समुद्भवविक्रमाग्निः समुत्पन्नप्रतापवह्निस्तस्य चिह्नं चिह्नभूता धृमलेस्वा स्वलु निश्वये । यथा धूमोऽग्नेलिङ्गम् । चया धूमलेखया रिपूणां दारास्तेषां दृगम्बुजेभ्योऽश्रुवि श्राणनाय रोदनवितरणाय जातम् । पतिवधादित्यर्थः । किंभूतया-अरिपरिपद्वरिसङ्घ स्तल्लक्षणा मशकास्तन्निवृत्तिरूपोऽर्थः प्रयोजनं यस्याः सा तया । अत्रार्थशब्दो निवृत्तिवचनः । धूमलेखा हि दृशां चाश्रणि जनयति । अतिशूरोऽयमिति भावः । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः ॥

श्यामीकृता मृगमदैरिव माथुरीणां
 धौतैः कलिन्दतनयामधिमध्यदेशम् ।
तत्राप्तकालियमहाहूदनाभिशोभा
 रोमावलीमिव विलोकयितासि भूमेः ॥ १०६ ॥

 श्यामीति ॥ तत्र मथुरायां अधिमध्यदेशं मध्यदेशे कलिन्दतनयां यमुनां भूमे रोमावलीमिव त्वं विलोकयितासि । किंभूताम्-माथुरीणां मथुरास्त्रीणां धौतैर्जलक्रीडाक्षालितैर्मृगमदैः कस्तूरीभिरिव श्यामीकृतां न तु स्वतः श्यामामित्यर्थः । तथा-आप्ता प्राप्ता कालियस्य सर्पराजस्य महाह्नदेन कृत्वा नाभिशोभा यया ताम् । रोमराजिः स्वतः श्यामापि मृगमदैः श्यामतरा, कालियमहाह्रवद्गभीरया नाभ्या प्राप्तशोभा च, मध्यप्रदेशे च भवति । अनेन सह कालिन्द्यां जलक्रीडां कुर्विति भावः ॥

गोवर्धनाचलकलापिचयप्रचार-
 निर्वासिताहिनि घने सुरभिप्रसूनैः ।
तस्मिन्ननेन सह निर्विश निर्विशङ्क
 वृन्दावने वनविहारकुतूहलानि ॥ १०७ ॥

गोवर्धनेति ॥ हे भैमि, तस्मिन् श्रीकृष्णक्रीडयातिप्रसिद्धे स्त्रीसरूपं वृन्दमवतीति वृन्दावनं मथुरासमीपवनं (तस्मिन् )। वृन्दस्य गोपालसङ्घस्य वने वा । त्वं अनेन राज्ञा सह निर्विशङ्कं सर्पादिभयरहितं यथा तथा पुष्पावचयादीनि वनविहारकुतूहलानि वनक्रीडाकौतुकानि निर्विशोपभुङ्क्ष्व । किंभूते-गोवर्धननामाचलो गिरिस्तत्र वर्तमानाः कलापिचया मयूरसङ्घास्तेषां प्रचारेण संचरणेन निर्वासिता निष्कासिता अहयः सर्पा यस्मात् । तथा-घने निबिडच्छाये । तथा-सुरभीणि सुगन्धीनि प्रसूनानि पुष्पाणि यस्मिन् । वृन्दावने 'वनगिर्योः संज्ञायाम्' इति कोटरादित्वा[१]द्दीर्घः ॥


  1. 'साभिप्रायविशेषणत्वात्परिकरालंकारः' इति जीवातुः।