भूयोऽपि भूपमपरं प्रति भारती तां |
भूय इति ॥ भारती त्रस्यन् यश्चमूरुर्मृगः तद्वच्चलचक्षुपं चञ्चलनेत्रां तां भैमीं प्रत्यपरं भूयोऽप्याचचक्ष । हे खञ्जननेत्रवन्मञ्जुनेत्रे सुन्दरनेत्रे, त्वं एतस्य काशिनृपतेर्लक्ष्मीं कायकान्तिमवेक्ष्य अक्ष्णोः सुखं जनय ! एतदीयाक्षिलक्ष्मीमवेक्ष्येति वा । [१] ।</ref>काशिका इत्यादिप्रयोगदर्शनाद्ध्रस्वोऽपि काशिशब्दः ॥
एतस्य सावनिभुजः कुलराजधानी |
एतस्येति ॥ हे भैमि, या काशी स्मरारेर्हरस्य भवोत्तरणेऽस्य संसारसमुद्रस्य तरणे मूल्यानपेक्षत्वाद्धर्मनौका, सा एतस्यावनिभुजो राज्ञः कुलराजधानी वंशपरम्परानिवासस्थानम् । संसारोत्तारणत्वमेवाह-यां काशीमागताः प्राप्ताः दुरितपूरितचेतसोऽप्यतिपापिनोऽपि चिरजं चिरकालसंचितं पापं निरस्य विरजीभवन्ति विगतरजस्का भवन्ति विगतरजोगुणाः सत्त्वप्रधानाः भवन्ति । मोक्षं लभन्त इत्यर्थः। धर्मतरीत्यनेन सर्वस्याप्यनिवारणं सूचितम् । अविरजसोऽपि विरजसो भवन्ति । 'अरुर्मनः-' इति च्विः सलोपश्च ॥
आलोक्य भाविविधिकर्तृकलोकसृष्टि- |
आलोक्येति ॥ रुद्रः भावीनि भविष्यन्ति विधिकर्तृकाया ब्रह्मकर्तृकाया लोकसृष्टेः कष्टानि दुःखान्यालोक्य विचार्य पुरा कृपयैव रोदिति अरोदीत् । ब्रह्मललाटादुत्पन्नो
- ↑ दीर्घस्यापि 'केणः' इति हृस्वादेशे 'काशिका' इति रूपसिद्धौ तत्प्रयोगस्य ह्रस्वान्तकाशिशब्दप्रमाणत्व- कल्पनं प्रतारणमात्रम् । काशधातोः 'सर्वधातुभ्य इन्' (उणादि) इति सूत्रेण सिद्धात् काशिशब्दात् 'कृदि- कारात्-' इति ङीष्विकल्पे रूपद्वयसिद्धिर्निर्बाधा । तथा च-केशवः-'पुरी श्रेष्टा तीर्थराजी जित्वरी च तपः- स्थली । काशी वाराणसी काशिर्वरणासी वराणसी' इति ॥