पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
प्रथमः सर्गः।

चन्दनमध्ये कर्पूरोऽधिको जातस्तेनाङ्गपाण्डुत्वं न त्वन्यत्कारणम् । विषमत्तीति विषादः शिवः, तस्याभिनयाद्, निःश्वासानुपदं शिव शिवेति नामोच्चारणाद्वा जुगोप । 'धनसारश्चन्द्रसंज्ञः कर्पूरः' इत्यमरः॥

शशाक निहोतुमयेन तत्प्रियामयं बभाषे यदलीकवीक्षिताम्।
समाज एवालपितासु वैणिकैर्मुमूर्छ यत्पञ्चममूर्छनासु च ॥ ५२ ॥

 शशाकेति॥अयं नलोऽलीकवीक्षितां मोहेन मिथ्यैव वीक्षितां प्रियां भैमी प्रति यत्कि- चिद्वभाषे, तदयेन दैवेन निह्रोतुं गोपायितुं शशाक। वैणिकैर्वीणावादनकुशलैः पञ्चमरा- गस्य मूर्छनास्वालपितासु पुनःपुनर्गीतासु सतीषु समाज एव सभायामेव यन्मुमूर्छ, त- दापि अयेन रागमूर्छनाजनितसुखानुभवव्याजेन निह्णोतुं शशाक ! मूर्छाप्यपलपिते- त्यर्थः । सप्तानां स्वराणामारोहावरोहौ मूर्छनाः । तास्त्वेकविंशतिः । अथ च प्रियां प्रति अये भैमीति समाजे बभाषे तत् निह्रोतुं न शशाक इति काकुः । शशाकैव ।शब्दा- न्तरान्तर्भूतत्वाद्वचनमपलपितम् । यद्वा-वैणिकैः पञ्चमरागमूर्छनासु गातुं प्रारब्धासु समाज एव सभैव मुमूर्छ । येन नलकृतभैमीसंबोधनमाकर्णनीयं स समाज एव मूर्छा प्राप । यद्वा-यत्किचिद्वभाषे, तद् अये कामाय निह्णोतुं न शशाक, समाजाय त्वपला- पितुं समर्थोऽभूत् । यतः समाज एव मुमूर्छ । इः कामः तस्मै कामाय । 'अये क्रोधे विषादे च संभ्रमे स्मरणेऽपि च', 'इः कामे परुषोक्तौ च' इति विश्वः । 'अयः शुभा- वहो विधिः', 'वीणावादस्तु वैणिकः' इत्यमरः । रागप्रकटीकरणमालपितम् । पशुव्य- तिरिक्तसमूहवाचित्वात्समाज इत्यत्र घञ् । 'वैणिकैरिति 'शिल्पम्' इति ठक् । मूर्छोन्मादायुक्तौ1 ॥

अवाप सापत्रपतां स भूपतिर्जितेन्द्रियाणां धुरि कीर्तितस्थितिः ।
असंवरे शंबरवैरिविक्रमे क्रमेण तत्र स्फुटतामुपेयुषि ॥ ५३ ॥

 अवापेति ॥ स भूपतिः सापत्रपतामवाप । अन्यतो लजापत्रपा तया सह वर्तमानः सापत्रपः तस्य भावस्तत्ता तां प्राप । किंभूतः-यतो जितेन्द्रियाणां मध्ये धुर्यग्रे प्रथ- मतः कीर्तिता स्तुता स्थितिर्मर्यादा यस्य । विरहव्यथा लोकेनापि ज्ञातेति सलज्जो- ऽभूदित्यर्थः । कस्मिन्सति-तत्र समाजे सभामध्येऽसंवरे निरोद्धमशक्येऽगोप्ये शं- बरवैरी कामस्तस्य विक्रमे क्रमेण परिपाट्या स्फुटतां प्राकट्यमुपेयुषि प्राप्ते सति असंवरे, इत्यत्र 'ग्रहवृदृनिश्चि-' इत्यप्3

अलं नलं रोद्धुममी किलाभवन्गुणा विवेकप्रमुखा न चापलम् ।
स्मरः स रत्यामनिरुद्धमेव यत्सृजत्ययं सर्गनिसर्ग ईदृशः॥ ५४॥


. १ 'अत्र व्याजोक्तिरलंकारः । यथाह काव्यप्रकाशः-'व्याजोक्तिश्छद्मनो भिन्नवस्तुरूपनिगूहनम्' इति साहित्यविद्याधरी । 'अत्राङ्गगताभ्यां मृषाविषादचन्द्रभागपाण्डिमभ्यां तद्विरहश्वासपाण्डिम्नोर्निगूहनान्मी- लनालंकारः-मीलनं वस्तुना यत्र वस्त्वन्तरनिगृहनम्' इति लक्षणात्' इति जीवातुः। २ 'एतेन ही- त्यागोन्मादमूर्छावस्थाः सूचिताः' इति जीवातुः। ३ 'छेकानुप्रासोऽलंकारः' इति साहित्यविद्याधरी।