पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
नेपधीयचरिते

ध्ययनमन्यास्नीत्यधांती सोयं राज्ञा रहः नवपदेस्ते स्तनी महतु पूजयतु । कीदृशैः-रुष्टायाः क्रुद्धाया अद्विजायाश्चरणयोः कुङ्कुमपङ्करागः कुङ्कुमलौहितिमा तेन संकीर्णाया मिश्रितायाश्चरणपतितस्य शंकरस्य चरणाघातवशेन कुङ्कमसंवन्धाल्लौहितायाः शशाङ्ककलायाश्चन्द्रकलाया अङ्ककारः प्रतिमलैः । अङ्कं द्वन्द्वयुद्धं कुर्वन्तीत्यङ्ककाराः। वक्रत्वादारक्त वाच्च तत्सदृशैः । एनं वृणीप्वेति भावः । 'कलाङ्कुराभै:' इति वा पाठः । अधीतमनेनेत्यधीती, 'इष्टादिभ्यश्च इतीनिः। तद्योगे शासनशते इत्यत्र 'क्तस्येन्विषयस्य कर्मण्यपि' इति सप्तमी॥

पृथ्वीश एष नुदतु त्वदनङ्गताप-
 मालिङ्गय कीर्तिचयचामरचारुचापः ।
सङ्ग्रामसंगतविरोधिशिरोधिदण्ड-
 खण्डिक्षुरप्रशरसंप्रसरन्प्रतापः ॥ १२३ ॥

 पृथ्वीश इति ॥ एप पृथ्वीशस्त्वामालिङ्गय त्वदनङ्गतापं त्वदीयं मदनज्वरं, त्वद्विपयं स्वीयं वा त्वदिति पृथकृक्क्रत्य त्वद्धेतुकमिति वा, नुदतु हरतु । किंभूतः-कीर्तेश्चापसमुन्पन्नत्वात्कीर्तिचयचामरेण कीर्तिसमूहरूपचामरेण चार चापं यस्य सः। तथासङ्गामे संगता मिलिता विरोधिनो वैरिणस्तेषां शिरोधिदण्डा कंधरादण्डास्तान् खण्डयन्न्येवंशीलाः क्षुरप्राख्याः शरास्तैः तेभ्यो वा सम्यक्प्रसरन्नतितरां विवृद्धः प्रतापो यस्य । 'वीरानुरागिण्यो हि योपितः' इति न्यायात् । अतियशस्विनः प्रतापवतश्चास्य लाभेन तव मदनज्वरः शाम्यत्वित्यर्थः । अथ च विवृद्धप्रतापालिङ्गनेन तापशान्तिराश्चर्यकारिणी । अतिधनुर्धरस्य चापे चामरं भवति । 'शिरोधिः कंधरेत्यपि' इत्यमरः ॥

वक्षस्त्वदुग्रविरहादपि नास्य दीर्णं
 वज्रायते पतनकुण्ठितशत्रुशस्त्रम्।
तत्कन्दकन्दलतया भुजयोर्न तेजो
 वन्हिर्नमत्यरिवधूनयनाम्बुनापि ॥ १२४ ॥

 वक्ष इति ॥ तव उग्रो दुःसहो विरहो वियोगानलस्तस्मादपि न दीर्णं अस्य वक्षः वज्रायते वज्रवदाचरति अविदीर्णत्वाद्वज्रवदतिकठिनं भवति । यतः-पतनेन कुण्ठितानि भन्नानि शत्रुशस्त्राणि यस्मिन् । कुलिशमपि वह्निसंवन्धाद्विदीर्णं न भवति । पतनकुण्ठितशत्रुशस्त्रं च भवति । तस्मादेतद्वक्षो वज्रतुल्यम् । अथ च हीरकवदाचरति । हीरकोऽपि वह्निसंबन्धान्न स्फुटति इति प्रसिद्धिः । शस्त्राणि च कुण्ठयति । 'पृथिव्यां यानि रत्नानि ये चान्ये लोहजातयः । तानि वज्रेण लिख्यन्ते वज्रं नान्येन लिख्यते' इत्यादि ज्ञातव्यम् । सामुद्रिकलक्षणयुक्तमेतद्वक्ष इत्यर्थः । अत एव एतस्य भुजयोस्तद्वक्षोलक्षणो यः कन्दो मूलं तस्य कन्दलौ नवांङ्कुरौ तयोर्भावस्तत्ता तया वज्रीभूतवक्षःस्थ-