पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०५
एकादशः सर्गः।

 तद्वर्णनेति ॥ तस्य काशीश्वरस्य वर्णनासमय एव समेताः समागता लोका नृतनराजलोकास्तेषां शोभा तस्या अवलोकनपरा असौ भैमी तं काशीश्वरं निरासे निराचकार । अन्यावलोकनेनैव निराकरणं जातमित्यर्थः । तया गुणविदातिविदुष्या भूभृतां सदसि राजसभायां यद्यस्मान्मानी अभिमानवान् असावनादृतोऽवशातः, तत्तस्मात् दुर्यशसेवाकीत्येव मम्लौ। लजावशात्कालिमानं प्राप्त इत्यर्थः । गुणिना हि राजसमक्षं कृताऽवशाभिमानिनो दुर्यशसे भवति, न तु मूर्खेण कृता । निरासे, 'उपसर्गादस्यत्यूह्याः' इति तङ् । 'परासे' इति कचित्पाठः॥

सानन्तानाप्यतेजःसखनिखिलमरुत्पार्थिवान्दिष्टभाज-
श्चित्तेनाशाजुषस्तान्सममसमगुणान्मुञ्चती गूढभावा ।
पारेवाग्वर्तिरूपं पुरुषमनु चिदम्भोधिमेकं शुभाङ्गी
निःसीमानन्दमासीदुपनिषदुपमा तत्परीभूय भूयः ॥ १२९ ॥

 सेति ॥ सा भैमी एवंभूतं नललक्षणं पुरुषमनु लक्ष्यीकृत्य भूयोऽतिशयेन बहु अत्यर्थं तत्परीभूय नल एव तात्पर्य यस्या एवंविधा भूत्वा उपनिषदो रहस्यभूतायाः श्रुतेरुपमा यस्या एवंविधा उपनिषत्तुल्या आसीत् । किंभूता सा-तेजसः सखायस्तेजःसखाः तेजस्विनो निखिलाः सकला मरुतश्च देवाः पार्थिवाश्च राजानस्तानाप्य प्राप्य एतत्समीपं गत्वा समं युगपत्त्यजन्ती । यतो-गूढभावा गूढाशया नलविषयमनुरागं गोपायन्ती । किंभूतांस्तान्-अनन्ताननवधीन्गणयितुमशक्यान् । तथा-दिष्टभाजः स्वयंवरकाले समागतान्दैवभाजो बहुसंपदो वा । तथा-चित्तेन चेतसा आशाजुपो भैमीप्राप्त्यभिलाषिणः स्वस्मिन्नभिलाषिणः । तथा असमगुणानतुल्यसौन्दर्यादिगुणान्परस्माद्गुणैरधिकान् । पुनः किंभूता सा-शुभाङ्गी सुन्दरी । किंभूतं पुरुषम्-पारेवाग्वर्तिरूपम् । वाचः पारे परतीरे वर्त(मा)नशीलं वागगोचरो वर्णयितुमशक्यं सौन्दर्य यस्य । अतिसुन्दरम् । तथा-चिदम्भोधिं ज्ञानसमुद्रं सकलशास्त्रपारगम् । तथा-निःसीमानन्दमपरिमितानन्दं, सदोत्साहशक्तियुक्तं, भैमीप्राप्तिनिश्चयाद्वा निःसीमानन्दम् । एकं मुख्यम् । निःसीमानन्दं यथा तथा तत्परीभूयेति वा । समं प्राप्येति वा । सममाशाजुप इति वा । मया राज्यलक्ष्म्या सह वर्तमानमिति पुरुषविशेषणं वा । उपनिषदपि-अनन्तेनाकाशेन सहितान्सानन्तान् । तथा-दिष्टभाजः कालसहितान् , चित्तेन मनसा समं सार्धमाशाजुषो दिग्भाजो दिङमनोयुक्तान् , असमगुणानतुल्यसंख्यरूपरसगन्धादिगुणयुक्तान् । तथा -वैशेषिकादिप्रक्रियासिद्धा आप्या उदकजन्याः पदार्थाः, तेजः तैजसाः पदार्थाश्च, आप्यतेजसां सखाय आप्यतेजःसखाः आप्यतैजसपदार्थसहिता निखिलाः सकला ये मरुतो वायवः पृथिवीसंबन्धिनः पार्थिवाश्च पदार्थास्तान् । यद्वा-अनन्ताविनाशरहितान् आप्यतेजांसि च खेनाकाशेन सहिताश्च ते निखिलमरुत्पार्थिवाश्च तान् । पृथिव्यप्तेजोवाय्वाकाशकालदिङ्मनोलक्षणानष्टौ पदार्थान्युगपद्वैतप्रतिपादनेन निराकुर्वती । अविद्यमानोऽन्तो विनाशो येषां तेऽनन्ता नित्याः सामान्यविशेषसमवायास्तैः सहितानाप्यादीनष्टौ पदार्थान् । तथा-न सममसमं पञ्चसंख्यायोगित्वाद्विषम-