पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०८
नैषधीयचरिते=

 वृणीप्वेति ॥ गौरवत्वलक्षणेन वर्णन सुवर्ण केतकीप्रसूनस्य गौरवत्वलक्षणाद्वर्णादादृतं प्रेमाम्पदीकृतं तस्मादधिकं वा अतिगौरं सुकुमारशरीरमृतुपर्णनामानं नृपं त्वं वृणीष्व । अयं अवनीपतिः भवन्मयस्त्वदेकचित्तः सन् निजामात्मीयां परम्परायातां पा. वनी पवित्रीकरणशीलामयोध्यां मुक्तिपुरीमपि न ध्यायति न स्मरति । परमानन्दरूपन्यान्मुक्तेः सकाशादपि तव प्राप्तिरेतस्याधिकेत्यर्थः । अन्योऽपि विलासी गुणवतीमपि निजां प्रियामचिन्तयन्नन्यामेवं ध्यायतीत्युक्तिः । त्वय्यतितरामनुरक्तोऽयमेनं वृणीष्वेति भावः । वर्णात् , 'पञ्चमी विभक्ते' इति पञ्चमी । भवन्मयः, 'सर्वनाम्नो वृत्तिमात्रे-' इति पुंवद्रावः॥

[१] पीयतां नाम चकोरजिह्वया कथंचिदेतन्मुखचन्द्रचन्द्रिका ।
इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भवन्मुखस्पृशी ॥६॥

 नेति ॥ हे भैमि, चकोरजिह्वया एतस्य ऋतुपर्णस्य मुखमेव चन्द्रस्तस्य चन्द्रिका प्रसन्नतारूपा ज्योत्स्ना कथंचित्केनापि प्रकारेण न पीयतां नाम । चकोरजिह्वया सत्यचन्द्रचन्द्रिका पीयते, इयं त्वलीकमुखचन्द्रिकेति पीयतां मा वा । अत्रास्माकुमौदासीन्यमित्यर्थः । परंतु चिरं भवन्मुखस्पृशी त्वदीयमुखसेवनतत्परे चकोरस्य चक्षुषी इमामेतन्मुखचन्द्रचन्द्रिकां किमिति नाचामयसे पाययसे । अपि तु पाययस्व । अलीकत्वात्तादृप्रसाभावाश्चकोरजिह्वया पाने कृतेऽपि तथा सुन्दरत्वाद्वर्णनायामस्मदादीनामशक्तत्वेऽपि तादृगाह्लादकत्वस्य सौन्दर्यस्य च प्रत्यक्षेण द्रष्टुं शक्यत्वादेतन्मुखचन्द्रचन्द्रिकां चक्षुषी पाययस्वेत्यर्थः । अथच चकोरजिह्वया भवन्मुखसेवाया अकृतत्वादेतन्मुखचन्द्रचन्द्रिकापानं कर्तुमशक्यमिति युक्तम् । तदीयचक्षुर्भ्यां तु चिरकालमुत्तमस्य भवन्मुखस्य सेवनात्तयोरेतन्मुखचन्द्रचन्द्रिकापानं युक्तम् । उत्तमसेवया हि दुष्प्रापमपि वस्तु सुप्रापं भवतीत्याशयः । चिरकालमेतन्मुखकान्तिं सादरं किं न पश्यसि । अपितु पश्य । एनं वृणीष्वेति भावः । यद्वा जिह्वाया अल्प एव स्वाद्ये सामर्थ्यादेतन्मुखचन्द्रचन्द्रिकायाश्चातिवहुत्वाञ्चकोरजिह्वयेयं कथंचिन्न पीयतां नाम । त्वन्मुखस्पृशोश्चकोरनेत्रयोस्तु पानं युक्तम् । अल्पीयसोरपि नेत्रयोर्भूयसो विषयस्य ग्रहणे सामर्थ्यसद्भावात् । किं पुनर्विशालयोरनयोरिति भावः । एते चकोरस्यैव नेत्रे भवन्मुखं स्पृशत इति नेत्रयो रमणीयत्वं चन्द्रिकापानयोग्यत्वं विलोकनचातुर्यं च सूचितम् । अत्राचमेः प्रत्यवसानार्थत्वात् 'गतिबुद्धि-' इत्यादिना चक्षुषोः कर्मत्वम् । 'णिचश्च' इति कर्त्रभिप्राये क्रियाफले विवक्षायामात्मनेपदे प्राप्तेपि 'निगरणचलनार्थेभ्यश्च' इति परस्मैपदप्राप्तेः । आचामयसे इति चिन्त्यम् । एवं सति चकोरस्य चक्षुषी चिरं भवन्मुखस्पृशी वर्तेते । यतस्त्वन्मुखसेवां बहुकालं कुर्वत(र्वाते )इत्यर्थः । अत एव इमामेतन्मुखचन्द्रिकां किं न आचामयसे । सामर्थ्यात् चक्षुर्ष्यामिति शेषः। इति समाधा[२] नम् । आचमनमाचामः सो-


  1. निपीयताम्' इति सुखावबोधासंमतः पाठः ।
  2. 'आचामय' इति पृथक्पदम् । 'ई लक्ष्मीस्तया स- हिता सेः । तस्याः संबोधने सोः 'एहस्वात्-' इति लोपः' इति भट्टोजिदीक्षिताशयः । 'केचित्तु-सा त्वम् इने चक्षुषी इनचक्षुषी श्रेष्ठचक्षुषी आचामय-इति व्याचक्षते' इति तत्त्वबोधिनी ! 'श्री च लक्ष्मी चला सा मा रमा जलधिजेन्दिरा' इति त्रिकाण्डशेषानुसारेण साशब्दस्यैव 'से' इति संबोधनम्-इति सारम् ।