पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२०
नेपधीयचारत

कवीनां वचनं अगाधेऽनलस्पर्श स्थाने पतति निमज्जति । श्रोतुमसामर्थ्याद्वागगोचरोऽस्य यश इत्यर्थः । अन्योऽपि समुद्रप्रवाहावगाही अगाधे बुडति । तथा-एतस्य शौर्यादीनां गुणानां गणनार्थमङ्कपातोऽङ्कविन्यासः प्रत्यर्थिनां वैरिणां कीर्तीरेव खटिकाः क्षिणोति हिनस्ति। बह्वङ्कविन्यासे हि खटिकाक्षयो भवति । एतद्गुणा अप्यतिभूयस्त्वाद्गणयितुमशक्याः । एतद्गुणानां पुरस्तादरिकीतिर्न प्रतिभासत इत्यर्थः । एनं वृणीष्वेत्यर्थः । क्षिणोति लघूपधत्वाद्गुणप्रसक्तावपि संज्ञापूर्वकविधैरनित्यत्वाद्गुणाभावः ॥

भास्वद्वंशकरीरतां दधदयं वीरः कथं कथ्यता-
मध्युष्टापि हि कोटिरस्य समरे रोमाणि सत्त्वाङ्कुराः ।
नीतः संयति वन्दिभिः श्रुतिपथं यन्नामवर्णावली-
मन्त्रः स्तम्भयति प्रतिक्षितिभृतां दोस्तम्भकुम्भीनसान् ॥१०॥

भास्वदिति ॥ हे भैमि भास्वतः वंशः तस्य करीरतां तदङ्कुरत्वं दधद्दधानः सूर्यवंशोत्पन्नः वयःसंधौ वर्तमानः । अथ च-मुक्तायुक्तत्वाद्भास्वान् यो वंशो वेणुस्तद्ङ्कुरत्वं दधत् अतितेजस्वी अयं ऋतुपर्णनामा वीरः कथं केन प्रकारेण कथ्यतां वर्ण्यताम् । अपितु वर्णयितुं न शक्यत इत्यर्थः । हि यस्मात् समरे वर्तमानस्याध्युष्टापि सार्धत्रयीति प्रसिद्धापि कोटिः सार्धत्रयकोटीनि मानुषशरीरे स्थितानि रोमाणि सत्त्वस्यान्तरवीररसोत्सेकस्याङ्कुरा इवाङ्कुराः । वीररसोत्साहेन सङ्ग्रामे रोमाञ्चयुक्तोऽयं भवतीत्यर्थः। तथा-यस्य नामवर्णावलीमन्त्रः ऋतुपर्ण इति नामाक्षरपङ्क्तिरूपो मन्त्रः संयति वन्दिभिः श्रुतिपर्थ कर्णपथं नीतः प्रापितः सन् प्रतिक्षितिभृतां रिपूणां दोषो वाहव एव स्तम्भास्त एव क्रौर्याईर्ष्याच्च ये कुम्भीनसाः सर्पास्तान्स्तम्भयति । एतन्नाममात्राकर्णनाद्भीतानां शत्रूणां वाहवो युद्धाय न प्रसरन्तीत्यर्थः । सिद्धवैदिकमन्त्रश्रवणाच्च फणिनां स्तम्भो भवति । अध्युष्टेति सार्धकोटित्रयस्य संज्ञा । अङ्कुरो नित्यपुंलिङ्गः । 'कुम्भीनसो लेलिहानः' इत्यमरः॥

तादृग्दीर्घविरिञ्चिवासरविधौ जानामि यत्कर्तृतां
शङ्के यत्प्रतिबिम्बमम्बुधिपयःपूरोदरे वाडवः ।
व्योमव्यापिविपक्षराजकयशस्ताराः पराभावुकः
कासामस्य न स प्रतापतपन: पारं गिरां गाहते ॥११॥

तादृगिति ॥ हे भैमि, अस्य राज्ञः स प्रताप एव तपनः सूर्यः कासां गिरा पारं परतीरं न गाहते। कस्यापि वर्णयितुमशक्य इत्यर्थः । स कः-अहं तादृक् दीर्घं चतुर्दशमन्वन्तरपरिमितत्वान्महापरिमाणं विरिञ्चिवासरं ब्रह्मदिनं तस्य विधौ करणे यस्य यदीयक्षात्रतेजोरूपस्य सूर्यस्य कर्तृतां निर्मातृतां जानामि । सूर्यस्य दिनकर्तृत्वाद्ब्राह्म-