पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२०
नपधायचारत

मध्यस्पर्शिनि । तथा -समरारम्भाद्रणतुर्यश्रवणात्कोपदुःसहे वा । यदि अस्तं यान्ति तर्हि सायंकालतिमिरसंपृक्तसंध्याधियेति वा । संध्यापि किंचित्कजलतुल्यतिमिरयुक्ता सिन्दूरवच्च स्वतो रक्ता वरुणदिगन्तस्पर्शिनी चेति पूर्वोक्तविशिष्टहस्तिदर्शने सति इयं सायसंध्येति बुद्ध्येव तेजःसूर्याणामस्तगमनं युक्तम् । एवंविधं गजं दृष्ट्वा सर्वेऽपि पलायन्त एवेत्यर्थः । जानीमोऽथ तदा' इति पाठे अथशब्दो यदित्यर्थे, तदा तदित्यर्थे ज्ञेयः। श्यामैव श्यामिकेति स्वार्थे कप्रत्यये 'प्रत्ययस्थात्' इतीत्त्व[१]

हित्वा दैत्यरिपोरुरः स्वभवनं शून्यत्वदोषस्फुटा-
सीदन्मर्कटकीटकृत्रिमसितच्छत्रीभवत्कौस्तुभम् ।
उज्झित्वा निजसद्म पद्ममपि तब्द्यक्तावनद्धीकृतं
लूतातन्तुभिरन्तरद्य भुजयोः श्रीरस्य विश्राम्यति ॥ ३७ ॥

 हित्येति ॥ श्रीः लक्ष्मीः अद्यास्य भुजयोरन्तः मध्ये विश्राम्यति शोभते । किं कृत्वादैत्यरिपोर्विष्णोः स्वभवनं स्वस्य गृहं उरःहित्वा। तथा-तत्निजसद्म पद्ममप्युज्झित्वा। किंभूतमुरः-लक्ष्म्या त्यक्तत्वाच्छून्यत्वलक्षणेन दोषेण स्फुटमासीदन्तः स्थिरीभवन्तो मर्कटकाटा ऊर्णनाभकीटास्तेषां करणेन निर्वृत्तं ते रचितं कृत्रिमं सितच्छत्रमिव सितच्छत्रं मण्डलाकारं श्वेतं गर्भाण्ड(न्तः स्थापनस्थानं तद् भवंस्तद्पीभवन्कौस्तुभाख्यो मणिर्यत्र । किंभूतं पद्मम्-लृतातन्तुभिः मर्कटीसूत्रैर्मर्कटसूत्रसदृशैः। कमलसूत्रै- रित्यर्थः । व्यक्तं प्रकटमवनद्धीकृतं बद्धम् । बिसतन्तूनामेव लृतातन्तुत्वेनोक्तिः। परस्परमतिदूरे द्वे अपि भवने प्रति गतागताभ्यां श्रान्ता सती गृहद्वयं परित्यज्य अतिसमीपवर्तिनोरस्य भुजयोरेव भवनयोः सुस्रेन निषीदति । अत्रैव स्थिरा भवतीत्यर्थः । कौस्तुभस्य धवलत्वामृताच्छन्नत्वेन, कमलसूत्राणां च सादृश्याल्लूतातन्तुत्वेनोत्प्रेक्षा । 'लृता स्त्री तन्तुवाये स्यात्' इ[२] त्यमरः॥

सिन्धोर्जेत्रमयं पवित्रमसृजतत्कीर्तिपूर्ताद्भुत
यत्र स्नान्ति जगन्ति सन्ति कवयः के वा न वाचंयमाः।
यद्बिन्दुश्रियमिन्दुरञ्चति जलं चाविश्य दृश्येतरो
यस्यासौ जलदेवतास्फटिकभू जागर्ति यागेश्वरः ॥ ३८ ॥

 सिन्धोरिति ॥ अयं सिन्धोर्जेत्रं समुद्रस्य जेतृ पवित्रमुज्वलं पावनं च तत्कीर्तिपूर्ताद्भुतं यशोरूपतडागाश्चर्यमसृजन्निर्ममे । यत्र कीर्तितडागे जगन्ति स्नान्ति उज्ज्वलीमवन्ति स्नानं च कुर्वन्ति । यद्वर्णनविषये के वा कवयः स्फुन्नूरतनार्थसार्था अपि वाचं-


  1. 'उत्प्रेक्षालंकारः' इति जीवातुः ।
  2. 'अत्रकस्याः श्रियः क्रमेणानेकाधारवृत्त्युक्त्या पर्यायालंकारभेदः । तेनैव तदुजयोः श्रीरञ्जन विष्णूर पद्माभ्यामप्यधिकं वस्तु व्यज्यते' इति जीवातुः।