पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
प्रथमः सर्गः।

ण्ठमिति षष्ठीतत्पुरुषोऽपि । वनम् , तृना योगे षष्ठ्यभावः । यानायेति ‘क्रियार्थोपपदस्य-' इति चतुर्थी ॥

अमी ततस्तस्य विभूषितं सितं जवेऽपि मानेऽपि च पौरुषाधिकम् ।
उपाहरन्नश्वमजस्रचञ्चलैः खुराञ्चलैः क्षोदितमन्दुरोदरम् ॥ ५७ ॥

 अमी इति ॥ ततस्तदाज्ञानन्तरममी भृत्यास्तस्य नलस्याश्वमुपाहरन्नानिन्युः। अश्वविशेषणानि-सितं श्वेतम् । विभूषितं विशेषेणालंकृतम् । जवेऽपि वेगेऽपि पौरुषेण बलेनाधिकम् । मानेऽपि परिमाणेऽपि पौरुषं पुरुषप्रमाणं तस्मादधिकम् । अजस्रं चञ्चलैः खुराञ्चलैः खुराग्रैः प्रयोज्यैः क्षोदितं चूर्णीकारितं मन्दुराया वाजिशालाया उदरं मध्यं येन । 'खुरैः खनन्यः पृथिवीमश्वो लोकोत्तरः स्मृतः' इति शालिहोत्रे । विभूषितम् वीनां पक्षिणां भुवि स्थान उषितम् । वेगवशादाक्रमणवशाद्वा गगनगामिनमिति वा । सितमित्यनेन कफप्रकृतित्वम् । तेनातिबलवत्त्वसहिष्णुत्वादिलक्षणं सूचितम् । 'ऊर्ध्वविस्तृतदोःपाणिनृमाने पौरुषं त्रिषु', 'वाजिशाला तु मन्दुरा' इत्यमरः । पुरुषशब्दात्पक्षे भावे युवादित्वादण् । परिमाणे 'पुरुषहस्तिभ्यामण् च' इत्यण् । क्षोदितमिति हेतुमण्ण्यन्तान्निष्ठा । कर्तरि च तृतीया, करणे वा ॥

 (इतः सप्तभिः कुलकम्-)

अथान्तरेणावटुगामिनाध्वना निशीथिनीनाथमहासहोदरैः।
निगालगाद्देवमणेरिवोत्थितैर्विराजितं केसरकेशरश्मिभिः ॥ ५८ ॥

 अथेति ॥ अथानन्तरं स नलः हयमारुरोहेति सप्तमश्लोकेनान्वयः । अश्वविशेषणानि । किंभूतं हयम्-स्कन्धप्ररूढाः केशाः केसरकेशास्तेषां रश्मिभिः, तल्लक्षणैरेव किरणैर्वा विराजितम् । किंभूतैः-निगालगाद् गलप्रदेशे वर्तमानाल्लक्षणभूताद्देवमणेः देवमणिनाम्नो दक्षिणावर्ताद्वटुगामिना आन्तरेण कण्ठमध्यवर्तिनाध्वना मार्गेणोत्थितैः निसृतैरिव । तथा-उज्ज्वलत्वात् निशीथिनी रात्रिस्तस्या नाथश्चन्द्रस्तस्य महांसि किरणास्तेषां सहोदरैः सदृशैः। प्रायेण सहोदराः सरूपा भवन्तीति सारूप्यं लक्ष्यते । अथ च देवमणिः कौस्तुभः, चन्द्रश्च । समुद्रादुत्पन्नत्वादुभयोः सहोदरत्वम् । केसरकेशरश्मिभिरुपलक्षितम् । विराजितं वीनां पक्षिणां राजा विराजो गरुडः तद्वदाचरितम् । 'निगालस्तु गलोद्देशे', 'अवटुर्घाटा काटिका' इत्यमरः । 'देवमणिः शिवेऽश्वस्य कण्ठावर्ते च कौस्तुभे' इति विश्वः । सहोदरैरिति 'वोपसर्जनस्य' इति वैकल्पिकत्वात्सादेशाभावः॥

अजस्रभूमीतटकुट्टनोत्थितैरुपास्यमानं चरणेषु रेणुभिः ।
रयमकर्षाध्ययनार्थमागतैर्जनस्य चेतोभिरिवाणिमाङ्कितैः ॥ ५९॥


 १ 'अत्रोपमा सहोक्तिश्चालंकारः' इति साहित्यविद्याधरी । २ 'क्षोभितम्' इति पाठः । ३ अत्र पक्षे- 'क्षोदितम्' इति 'क्षोदवत्कृतम्' इत्यर्थे तत्करोतीतिण्यन्तात्क्तः, 'मतोर्लोपश्च' इति सुखावबोधा । ४ 'अत्रानुप्रासोत्प्रेक्षारूपकाणां संकरः' इति साहित्यविद्याधरी। ५ 'अत्रोत्प्रेक्षा जातिश्चालंकारौ' इति साहित्यविद्याधरी।