पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२१
द्वादशः सर्गः ।

यमा मौनिनो न सन्ति । अपि तु सर्वेपि मौनिन एव भवन्तीत्यर्थः । अथ च-के वयो जलपक्षिणः के वा तापसा न सन्ति । अपि तु तडागे बहवः पक्षिणस्तापसाश्च विद्यन्ते । इन्दुः यस्य कीर्तितडागम्य बिन्दुश्रियमञ्चति प्राप्नोति । यदपेक्षया चन्द्रोऽल्पीयानित्यर्थः । अथ च-महतस्तडागन्य जलबिन्दुशोभामिन्दुरश्चति । यदीयो बिन्दुरिवेन्दुरित्यर्थः । यस्य च जलमाविश्य प्रविश्येव दृश्येतरः अस्मदादिनेत्रयोरविष- यभूतः असौ जगति विद्यमानः स्फटिक एव भूः यस्य (स) कैलास एव जा(या)गेश्वरः स्फाटिकश्रीशिवलिङ्गरूपी जलदेवता जागर्ति स्फुरति । समच्छायत्वाज्जले क्षिप्तः स्फटिको न दृश्यते । इयमेव स्फटिकपरीक्षा । उज्वलतरैतत्कीर्तिकल्लोलप्लावित इव कैलासो न दृश्यते । इन्दुर्जले चाविश्य जले प्रतिबिम्बित: सन् यद्बिन्दुश्रियमञ्चतीति वा । असौ इन्दुरेव यस्य जलमाविश्यादृश्य: स्फटिकनिर्मितो यागेश्वरः सन् जलदेवता जागर्ति । कीर्तिमध्यपाती चन्द्रोऽपि समच्छायत्वान्न दृश्यत इत्यर्थ इति वा। 'यागेश्वरः स्फाटिकः' इति प्रसिद्धिः । समुद्राधिक्यं तु 'सागरं पर्वणि स्पृशेत्' इति वचनात्पर्वातिरिक्ते काले समुद्रस्यास्पृश्यत्वादस्य तु सर्वदा पवित्रत्वात् । समुद्रस्य भूलोकस्थस्यैव कतिपयस्यैव जनस्य स्नानार्हत्वादस्य तु लोकत्रयस्य स्नानार्हत्वात् । तस्य वर्णयितुं शक्यत्वादस्य चाशक्यत्वात् । तस्य च चन्द्रैकसर्वस्वत्वादस्य च बिन्दुरूपचन्द्रत्वात् । समुद्रे च श्रीविष्णुरूपाया जलदेवतायाः सुप्तत्वादत्र च यागेश्वरस्य जाग्रत्त्वात् । एवंविधो यशस्वी कोऽपि नास्तीति भावः । यागेश्वर इति । असौ जलदेवता जागर्ति । असौ का-या स्फटिकभूरगेश्वरः कैलासो जागर्तीति वा । 'वाचि यमो व्रते' इति खचि 'वाचंयमपुरंदरौ च' इति साधुः॥

अन्तःसंतोषबाष्पैः स्थगयति न दृशस्ताभिराकर्णयिष्य-
न्नङ्गेनानस्तिरोमा रचयति पुलकःश्रेणिमानन्दकन्दाम् ।
न क्षोणीभङ्गभीरुः कलयति च शिर:कम्पनं तन्न विद्मः
शृण्वन्नेतस्य कीर्तीः कथमुरगपतिः प्रीतिमाविष्करोति ॥३९॥

अन्तरिति ॥ यस्मात् उरगपतिः शेपः अन्तः संतोषवाप्पैरानन्दाश्रुभिः कृत्वा दृशो नेत्राणि न स्थगयत्याच्छादयति । यतः-ताभिर्दृग्भिः एतद्गुणानाकर्णयिष्यन्सन् । चक्षुः श्रवत्वादनुभिर्नेत्राच्छादनेन गुणानाकर्णनशङ्कया आनन्दास्रुभिर्दृशौ नाच्छादयति । तथा--आनन्द एव कन्दो मूलं यस्यास्तां पुलकश्रेणिं रोमाञ्चपङ्क्तिमपि अङ्गेन रचयति करोति । यतः-अनस्तिरोमाविद्यमानरोमा । तथा-संतोषाच्छिरःकम्पनं न करोति । यतः क्षोणीभङ्गभीरुः यद्यहं मूर्धानं कम्पयिष्यामि तर्हि भूमिः पतिष्यतीति भिया । तस्मात्कारणादेतस्य कीर्तीः शृण्वन् शेषोऽन्तःकरणे समुत्पन्नां प्रीतिं कथं केनान्येन प्रकारेणाविष्करोति प्रकटयति वयं तत् न विद्मः । आश्चर्यरूपकीर्तिरयमिति भावः । सहस्रमुखत्वाद्दृश इति बहुत्वम् ॥

आचूडाग्रममज्जयज्जयपटुर्यच्छल्यदण्डानयं
संरम्भे रिपुराजकुञ्जरघटाकुम्भस्थलेषु स्थिरान् ।