सा सेवास्य पृथुः प्रसीदति तया नास्मै कुतस्त्वत्कुच- |
आचूडेति ॥ संरम्भे युद्धसंभ्रमे सति जये पटुरयं राजा रिपवश्च ते राजानश्च तेषां कुञ्जरघटाकुम्भस्थलेषु दूरनिस्राततया स्थिरान् शल्यस्य अग्रलोहस्य संबन्धिनो दण्डाशरान्प्रासान्वा आचूडाग्रं पुङ्खाग्रं मर्यादीकृत्य यदमज्जयन्निचखान । सा अस्य एतत्कर्तृका त्वदीया पृथुमहती सेवा । तया सेवया त्वं अस्मै कुतो न प्रसीदसि । यतः-किंभूताय-तव कुचस्पर्धागर्धिषु कुचसाम्याभिलाषिषु तेषु कुम्भस्थलेषु तान्पूर्वोक्तान्प्रचण्डान्दण्डान्धृतवतेऽपि कृतवतेऽपि । येन हि महती सेवा क्रियते तस्मै प्रसन्नीभूयते । अतिशूरोयं तस्माद्वृणीष्वेत्यर्थः ॥
स्मितश्रिया सृक्वणि लीयमानया वितीर्णया तद्गुणशर्मणेव सा। |
स्मितेति ॥ सा भैमी स्मितश्रिया तं राजानमुपाहसदुपहसितवती। यतः-कीर्त्यं वर्णयितुं शक्यं महत्त्वं यस्य एवंभूतमेव । हि यस्मात्-निषधेन्द्रवैभवं नलसामर्थ्यं गिरां पारे वागगोचरः । वर्णयितुमपि न शक्यत इत्यर्थः । नलादेतस्य न्यूनत्वादुपहास इत्यर्थः । किंभूतया स्मितश्रिया-तद्गुणशर्मणा तदीयगुणाकर्णनसमुत्पन्नेन सुखेन वितीर्णयेव दत्तयेव कृतयेव । तथा-सृक्वणि ओष्ठप्रान्ते लीयमानया संसर्गिण्या । कीर्त्यमित्यसद्गुणारोपणार्थसूचकं [१]पदम् ॥
निजाक्षिलक्ष्मीहसितैणशावकामसावभाणीदपरं परंतपम् । |
निजेति ॥ असौ वाणी अपरमन्यं परंतपं राजानं भ्रुवा पुरैव पूर्वमेव विनिर्दिश्य दर्शयित्वा तां भैमीमभाणीदुवाच । किंभूता-निजाक्ष्णोर्लक्ष्म्या नेत्रकान्त्या हसित एणशावको मृगशिशुर्यया । किंभूतया भ्रुवा-तस्य वर्णनीयस्य राज्ञो दिशा तत्संमुखं वलनेन दृक्पातेन कृत्वा याः श्रियस्तासां भुवा स्थानभूतया । किंभूतमेनम्-सभया सभास्थैः मनोज्ञतया सभाजितं दृष्टं पूजितं वा । रिपुतापकरत्वादन्वर्थनामानं वा ॥
कृपा नृपाणामुपरि क्वचिन्न ते नतेन हा हा शिरसा रसादृशाम् । |
कृपेति ॥ हे भैमि, ते तव नृपाणां मध्ये क्वचिदप्युपरि कस्याप्युपरि कृपा नास्ति । हा हा कष्टं कष्टम् । कमप्यवलोकयस्यपि नेति न युक्तमित्यर्थः । किंभूतानाम्-त्वत्कृतावज्ञावशाल्लजज्या नतेन शिरसा रसायां भूमौ हग्येषाम् । रसां पश्यन्तीति वा । अन्यत्र कृपा मा भून्नाम तावत् । किंतु तव लोचनाञ्चला अपाङ्गदृगंशाः निपेयः सादरावलो-
- ↑ 'अत्र नलगुणानुरागाख्येन कारणेनैतदपरागरूपकार्यसमर्थनात्तद्रूपार्थान्तरन्यासः' इति जीवातुः।