पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२५
डादशः सर्गः।

च-अन्तःकरणं स्वपरान्तरं स्वस्य आन्मनः परम्य चान्तरं न्यूनाधिकत्वतारतम्यं बुद्ध्वा वा अदसीयस्य चरणस्यैवाभिमुखं बाणावलीरुन्मुच्य निरायुधीभूय निपतताम् । एतच्चरणयोर्दण्डवन्नमस्कारं कुर्वताम् । किंभृतं शिरः-(रणसंमुस्रपक्षे) छिन्नं वा बाणै: खण्डितं सत् वा अवनतीभवत् नतग्रीवं भूमौ पतितं सत् । तथा--(चरणपक्षे)-अथवा निजभियो भरेण स्वीयभयबाहुल्येन वा खिन्नं सत् अवनतीभवन् । द्वितीयपक्षे- बलाद्विलोठितं वामदक्षिणभागस्पर्शकारीकृतम् । वैरिणो यदि युध्यन्ते तर्हि म्रियन्त एव । ये तु विचारका भीरवश्व, ते शस्त्राणि परित्यज्य एनमेव शरणं गच्छन्ति जीवन्तीति । एवकारेणान्यः शरण्यो न विद्यत इति सूचितम् । अन्यदपि भाराक्रान्तं नम्रं भवति । वाशब्दः प्रत्येकविकल्पे ॥

न तूणादुद्धारे न गुणघटने नाश्रुतिशिखं
समाकृष्टौ दृष्टिर्न वियति न लक्ष्ये न च भुवि ।
नृणां पश्यत्यस्य क्वचन विशिखान्किं पतित-
द्विषड्वक्षःश्वभ्रैरनुमितिरमून्गोचरयति ॥ ४९ ॥

 नेति ॥ युद्धकौतुकदर्शिनां नृणां मनुष्याणां दृष्टिः अस्य विशिखान् क्वचन कस्मिन्नपि तूणादुद्धारे निष्कासने उपादानकाले न पश्यतीति सर्वत्र संबन्धः । तथा-कस्मिन्नपि गुणघटने मौर्व्याः संधानकाले न । आश्रुतिशिखं कर्णाग्रं मर्यादीकृत्य समाकृष्टौ कस्सिन्नपि सम्यगाकर्षणकाले न । तथा-मोचनानन्तरं वियति कस्मिन्नपि गगनदेशे न । तथा-शत्रून्निभिद्य ततो निर्गत्य भुवि कस्मिन्नपि भूप्रदेशे पतितान्न पश्यति । तर्हि किंतु पतितानां बाणाघातकृतमर्मवेधवशाद्गतप्राणानां भूयिष्ठानां द्विषतां वक्षसः श्वभ्रैर्दृढं प्रहृत्य बहिनिर्गतशरकृतच्छिद्रैः कृत्वा या अनुमितिरनुमानज्ञानं अमून्बाणान्गोचरयति ज्ञापयति । चेदनेन बाणा न मुक्तास्तीतेषां वक्षसि छिद्राणि कथं भवेयुरि- त्याद्यनुमितिः। 'चक्षुःश्वभैः' इति पाठे चक्षुष्येव विध्यतीति [१]भावः ॥

दमस्वसुश्चित्तमवेत्य हासिका जगाद देवीं कियदस्य वक्ष्यसि ।
भण प्रभूते जगति स्थिते गुणैरिहाप्यते संकटवासयातना ॥ ५० ॥

 दमेति ॥ हासयतीति हासिका अतिनीचा चेटी दमस्वसुः चित्तं तद्वर्णनवाहुल्यनिरपेक्षं तस्मिन्नननुरक्तं चावेत्य ज्ञात्वा देवी सरस्वतीं जगाद । हे देवि, अस्य कियत् एतदीयं कियच्चरितं वक्ष्यसि वर्णयिध्यसि । अपि तु बहुत्वात्प्रत्येकं वर्णयितुं न शक्यत इत्यर्थः । गुणैः सौन्दर्यादिभिः प्रभूते महति जगति स्थितेऽपि इह नृपे संकटवासरूपा संमर्दवसतिरूपा यातना संकटवासेन वा यातना तीव्रवेदना आप्यते प्राप्यत इति भण कथय । सर्वे गुणाः सर्वं जगत्परित्यज्यास्मिन्नेव संमर्देन निवसन्तीत्येकेनैवाकारेण वर्णय । पृथग्वर्णनासामर्थ्यादित्यर्थः । वाक्यार्थः कर्म । अथ च भूयसि


  1. 'वेगातिशयोक्तिः' इति जीवातुः।