पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२६
नैषधीयचरिते

वर्तमाने जगति मध्ये गुणैरिहैव कष्टरूपा वसतिपीडा प्राप्यते न त्वन्यत्र । एतनिवासे गुणा उद्विजन्त एवानर्हत्वादेकोपि गुणोऽत्र नास्तीति भणेत्युपहासः । अस्य कियद्वक्ष्यसि कथय । अतः परं मा स्म वादीः। तस्मानिर्गुणमेनं गुणित्वेन कियन्तं कालं वर्णयिध्यसीति कथयेति वा । 'स्थितैः' इति पाठे गुणविशेषणम् । प्रभूतैरिति च ॥

ब्रवीति दासीह किमप्यसंगतं ततोऽपि नीचेयमति प्रगल्भते ।
अहो सभासाधुरितीरिणः क्रुधा न्यषेधदेतत्क्षितिपानुगाञ्जनः ॥५१॥

 ब्रवीतीति ॥ जनः प्रेक्षकः क्रुधा स्वस्वामिवर्णनविघातसमुत्पन्नेन क्रोधेन इतीरिणो भाषमाणान् एतस्य क्षितिपस्यानुगाननुचरान् न्यषेधनिवारयामास । इति किम्-इह सभायां भैम्या दासी किमपि असंगतमयुक्तं ब्रवीति 'चलेऽपि काकस्य' इत्यादि भाषते । ततोऽपि दास्या अपि सकाशान्नीचा इयं चेटी अतिप्रगल्भते नितरां धृष्टतया भाषते । नियामकः कोपि नास्ति । अहो अयुक्तत्वादाश्चर्यं साधुः सभा । विरुद्धलक्षणया काका अकारप्रश्लेषेण वासाधुरेतादृशी सभा न कुत्रापीति । ब्रवीति वर्तमानसामीप्ये भूते लट् । 'शशंस' इति वा पाठः समीचीनः । गल्भङ् धृष्टत्वे ॥

अथान्यमुद्दिश्य नृपं कृपामयी मुखेन तद्दिङ्मुखसंमुखेन सा।
दमस्वसारं वदति स्म देवता गिरामिलाभूवदतिस्मरश्रियम् ॥ ५२ ॥

 अथेति ॥ अथ कृपामयी बहुलकृपा सा गिरा देवता मुखेन अन्यं नृपमुद्दिश्य निर्दिश्य दमस्वसारं वदति स्म । किंभूतेनतस्योद्देश्यस्य नृपस्य दिङ्मुखं दिग्विभागस्तस्य संमुखेन । किंभूतं नृपम्-[१]इलाभूवत्पुरूरवसमिव अतिस्मरातिक्रान्तसरा श्रीर्यस्य तम्॥

विलोचनेन्दीवरवासवासितैः सितैरपाङ्गाध्वगचन्द्रिकाञ्चलैः।
त्रपामपाकृत्य निभान्निभालय क्षितिक्षितं मालयमालयं रुचः ॥५३॥

 विलोचनेति ॥ हे भैमि, त्वं अपाङ्गाध्वगायाः नेत्रप्रान्तरूपमार्गगामिन्याश्चन्द्रिकाया नेत्रमध्यगनीलगोलकस्य अञ्चलैरिवाञ्चलैरतिदीविलोकनव्यापारैः । कटाक्षैरिति यावत् । तैः कृत्वा निभाद्वस्त्वन्तरविलोकनव्याजात्त्रपामपाकृत्य मालयं मलयाद्रिस्वामिनं मायाः संपद्रूपाया लक्ष्म्या आलयं वा क्षितिक्षितं निभालय विलोकय । किंभूतैरञ्चलैः-विलोचने एव इन्दीवरे नीलोत्पले नीलोत्पलतुल्ये नेत्रे तयोर्मध्ये वासः स्थितिस्तया वासितैर्भावितैः । नयननीलिम्ना नीलीकृतैरित्यर्थः। तथा सितैः शुभैर्नीलश्वेतकान्तिभिः । कटाक्षैर्विलोकयेत्यर्थः । अथ च-विलोचनतुल्यानां नीलोत्पलानां वासेन परिमलेन सुगन्धीकृतैः सितैस्तिर्यगायतशीलत्वादपाङ्गतुल्यमार्गगामिन्या ज्योत्स्नाया अञ्चलः करैरुपलक्षितम् । तथा-कान्तेः स्थानम् । तथा-मः शिव आलयो यस्य ।


  1. 'तेन तुल्यं क्रिया चेद्वतिः । क्रिया चात्र स्मरातिक्रमः' इति जीवातुः। एतदजानानैर्वाङ्गैस्तु स्वकल्प नयैव 'किभूताम् अतिस्मरातिक्रान्तस्मरा श्रीर्यस्यास्ताम्' इति मुद्रितम् ।