पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२७
द्वादशः समः।

शिवमौलिनिवासिनं चन्द्रमेवैनं राजानं त्रपामपाकृत्य पश्येत्यर्थः । 'मः शिवे मा त्र पद्मायाम' इति विश्वः । निभालय, चुरादावात्मनेपदिनः पाटात्परस्मैपदं चिन्त्यम् । निभालनं निभालस्तद्वान्निभालवान् तादृशं कुर्विनि तत्करोति-' इति णिचि मतुब्लोपे साधनीयम् ॥

इमं परित्यज्य परं रणादरिः स्वमेव भग्नः शरणं मुधाविशत् ।
न वेति यत्रानुमितः कृतस्मयो न दुर्गया शैलभुवापि शक्यसे ॥५४॥

 इममिति ॥ हे भैमि, रणाद्भग्नः पलायितः कृतस्मयः कतगर्वोऽरिः एतस्य शत्रुः परं शत्रुभूतम् । अथ च महान्तम् । इमं परित्यज्य स्वमेव स्वीयमेव शरणं गृहं मुधा वृथा अविशत् । त्वदीयोऽहं मां रक्षेत्युक्त्वा एनमेव शरणं रक्षितारं कृतगर्वत्वादप्राप्य स्व- गृहं वृथैव गत इत्यर्थः । यद्यस्मात् दुर्गया विषमया शैलस्य भूस्तया । गिरिदुर्गेणेत्यर्थः । तयापि इतोऽस्मान्नृपात्त्रातुं न शक्यत इति न वेत्ति । गिरिदुर्गं प्रविष्टोऽपि बलात्ततोऽप- कृष्य हन्यते । स्वगृहं प्रविष्टो हन्यत इति किं वाच्यम् । अतः स्वगृहप्रवेशो व्यर्थ इ‌त्यर्थः । अथ च पर्वतपुत्र्या दुर्गयाऽपि त्रातुं न शक्यते धृतदर्पं हन्त्येव शरणागतं रजत्येवायमिति भावः। 'शरणं गृहरक्षित्रोः' इत्यमरः॥

अनेन राज्ञार्थिषु दुर्भगीकृता भवन्धनध्वानजरत्नमेदुरः।
तथा विदूराद्रिदूरतां गमी यथा स गामी तव केलिशैलताम्॥५५॥

 अनेनेति ॥ एतद्वरणेन सः अतिप्रसिद्धो विशेषेण दूरोऽद्रिः । अथ च विदूरनामा रोहणाचलः । तथा तेन प्रकारेणादूरतां सामीप्यं गमी गन्ता । यथा येन प्रकारेण तव केलिशैलतां क्रीडापर्वतत्वं गमी गमिष्यति । किंभूतः-अतिवदान्येनानेन राज्ञार्थिपु याचकेषु विषये दुर्भगीकृत उपेक्षाविषयतामयाचनीयतां प्रापितः । अत एव व्ययाभावान्नवा घना मेघास्तेषां ध्वानः शब्दस्तस्माज्जातै रत्नैर्मेदुरः परिपुष्टोऽभवन् । विदूराद्रौ हि नवमेघशब्दाद्रत्नशलाका उत्पद्यन्ते ताश्च याचकैर्नीयन्ते । अस्मिंस्तु बहुप्रदे सति तत्र कस्यापि याचकस्यागमनाद्व्ययाभावाद्रत्नैः कृत्वा त्वदुपवनं यावन्मेदुरो भवति स एव रत्नमयत्वात्तव क्रीडापर्वतस्थाने भविष्यति । अतिवदान्योऽयमिति भावः। भवद्घध्वान-' इति पाठे भवद्भय उत्पन्नेभ्यो घनध्वानेभ्य इति व्याख्येयम् । गमी गामी इति पूर्ववत् ॥

नम्रप्रत्यर्थिपृथ्वीपतिमुखकमलम्लानताभृङ्गजात-
च्छायान्तःपातचन्द्रायितचरणनखश्रेणिरैणेयनेत्रे ।
दृप्तारिमाणवातामृतरसलहरीभूरिपानेन पीनं
भूलोकस्यैष भर्ता भुजभुजगयुगं सांयुगीनं बिभर्ति ॥ ५६ ॥

 नम्रति ॥ हे एणेयो हरिणपोतस्तन्नेत्रवन्नेत्रे यस्यास्तत्संबुद्धिः एण्यवयवभूते नेत्रे वा