पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२८
नैषधीयचरिते


यस्याः भूलोकस्य भर्ता एप राजा संयुगे साधु सांयुगीनं रणरसिकं भुजद्वयरूपं भुजयुगं सर्पद्वयं बिभर्ति । किंभूतः-नम्राः प्रत्यर्थिपृथ्वीपतयः शत्रुनृपास्तेषां मुखान्येव कमलानि तेषां लज्जया म्लानता तद्रूपा भृङ्गेभ्यो जाता छाया भ्रमरसंबन्धिनी या शोभा कृष्णता तस्या अन्तःपातेन नखमध्ये प्रतिबिम्बितेन चन्द्रायिता चन्द्रवदाचरिता चरणनखश्रेणिर्यस्य ! किंभूतम्-दृप्तानां सर्पाणामरीणां प्राणाख्या वाता एवातिप्रियत्वादमृतरसस्तस्य लहरीणां तरङ्गाणां भूरि अतितरां पानेन पीनं पीवरं सगर्वनृप- प्राणवियोगकरणेनोजस्वि । समानाकारत्वादतिक्रूरकर्मत्वाच्च भुजयोः सर्पत्वम् । सर्पाणां च पवनाशनत्वात्प्राणाख्यः पवनैः पीनत्वं युक्तम् । दर्परहितांश्चरणपातिनो वैरिणो रक्षति, सदाननम्रान्मारयत्ययमिति भावः । ऐणेयं एण्या अपत्यम्, 'स्त्रीभ्यो ढक्' । एण्या अवयवा इत्यर्थे एण्या ढक्' । सांयुगीनम्, साध्वर्थे प्रतिजनादित्वात्खञ्[१]

अध्याहारः स्मरहरशिरश्चन्द्रशेषस्य शेष-
स्याहेर्भूयः फणसमुचितः काययष्टीनिकायः ।
दुग्धाम्भोधेर्मुनिचुलकनत्रासनाशाभ्युपायः
कायव्यूहः क्व जागर्ति न जागर्त्यदःकीर्तिपूरः ॥ ५७ ॥

 अध्याहार इति ॥ अमुष्य कीर्तिपूरः क्व कस्मिञ्जगति लोके न जागर्ति प्रकाशते । अपितु स्वर्गपातालमर्त्यलोकेषु स्फुरति । लोकत्रयव्यापित्वं क्रमेणाह-किंभूतः स्मरहरशिरसि यश्चन्द्रस्तस्य यः शेष एककला तस्या अध्याहारो लक्षणया पञ्चदशकलाभिः पूरकः । स्वर्गं गत्वा शिवशिरस्थितश्चन्द्रो येन षोडशकलः क्रियत इत्यर्थः । अन्यत्राप्यपूर्णवाक्ये किमपि योग्यं पदान्तरमध्याहृत्य वाक्यपूरणं क्रियते । तथा शेषस्याहेः सर्पराजस्य भूयांसः सहस्रसंख्याकाः फणास्तेषां समुचितो योग्योऽतिदीर्घः काययष्टीनिकायः शरीरदण्डिकासमूहः । फणसहस्रस्य शरीरसहस्रेण भवितव्यम् । पातालं गत्वा तदीयशिष्टशरीरपूरणं क्रियते इत्यर्थः । तथा -मुनेरगस्त्यस्य चुलकनं संकुचितहस्तपानं तस्माद्यस्त्रासो भयं तस्य नाशे निरासे अभि सामस्त्येनोपायः साधनम् । दुग्धाम्भोधेः कायव्यूहः शरीरसङ्घः । पूर्वमेकाकित्वेन पानाद्भयमभूत् , इदानीमेतद्यशोरूपानेकशरीरधारणात् । एकस्यानेकपाने सामर्थ्याभावाजलमात्रस्य च क्षीरतापादनाद्दुग्धयशसोश्च सरूपत्वाद्दुग्धे यशोभ्रमः यशसि दुग्धभ्रम इति दुग्धयशसोर्निर्णेतुमशक्यत्वात्पानाभावाद्भयाभावसाधनभूतः क्षीरोदधे: कायव्यूह इत्य[२] र्थः ॥

राज्ञामस्य शतेन किं कलयतो हेति शतघ्नीं कृतं
लक्षैर्लक्षभिदो दशैव जयतः पद्मानि पद्मै रलम् ।


  1. भुजभुजगयुग्मं बिभर्तीति रूपकालंकारः' इति जीवातुः
  2. 'अत्र कीर्तिपूरस्य त्रैलोक्यासंबन्धेपि तसंवन्धोक्तस्तद्रूपातिशयोक्तिः । सा चास्य चन्द्रे शेषाध्याहारत्वादिरूपकोत्थापितेति संकरः' इति जीवातुः