पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२९
द्वादश: सर्गः

कर्तुं सर्वपरिच्छिदः किमपि नो शक्यं परार्धेन वा
तत्संख्यापगमं विनास्ति न गतिः काचिद्दैतद्विषाम् ॥ ८५॥

 राशामिति ॥ नाम्ना शतघ्नीं चतुःशनीलोहकण्टकसंचितां हेतिं शस्त्रं कलयतो धारयतोऽस्य राज्ञां शतेन किम् । तेन शस्त्रेण मारणात्तैरनेकैरप्यस्य किमपि कर्तुं न शक्यत इत्यर्थः । अथ च यः शतमारणसमर्थं शस्त्रं गृह्णाति तम्य शतसंख्यामितै राजभिः किमपि कर्तुं न शक्यते । तथा-राज्ञां लक्षै: पूर्यताम् ! यतः-लक्षं वेध्यं भिनत्तीति लक्ष्यभित्तस्य लभ्यभिदः । यो हि कुत्रचिदप्यप्रतिहतसायकन्तस्य लक्षसंख्यैरपि किमपि कर्तुं न शक्यत इत्यर्थः । तथा-राज्ञां पद्मः पद्मसंख्यै राजभिरपि किम् । नगण्यस्य किमपि कर्तुं न शक्यते । यतः-दृशैव पद्मानि कमलानि पद्मसंख्याकान्वैरिणश्च जयतः । यो हि कमलतुल्यनेत्रस्तस्य शत्रुतः पराभवो न । अथ च भ्रूक्षेपमात्रेण पद्मसंख्यापरिमितान्राज्ञो जयति तस्य पद्मसंख्यै राजभिः किमपि कर्तुं न शक्यते । नथा- वा समुच्चये राज्ञां परार्धेनापि परार्धसंख्यै राजभिरस्य किमपि कर्तुं नो शक्यम् । यत:-सर्वे च ते परे शत्रवश्च ताञ्छिनत्ति तस्य । यो हि वैरिमात्रहनने समर्थस्तस्य परार्धसंख्याः शत्रवः किं कुर्वन्तु । तत्तस्मात् एतस्य द्विपां संख्याद्रणादपगमं पला- यनम् । अथ च-परार्धरूपायाः संख्याया अन्यपगमं परित्यागं असंख्यत्वं विना काचिद्गतिः प्रकारो नास्ति बत खेदे । असंख्येयाश्चेदभविष्यंस्तर्ह्यजीविष्यन् । असंख्येयं नास्ति तस्मात्पलायनमेव जीवनोपायः। पलायितान्न हन्तीत्यर्थः । 'लक्षं शरव्ये संख्यायाम् । शतघ्नीम् , 'अमनुष्यकर्तृके च' इति टक्[१]

वयस्ययाकूतविदा दमस्वसुः स्मितं वितत्याभिदधेऽथ भारती।
इतः परेषामपि पश्य याचतां भवन्मुखेन स्वनिवेदनत्वराम् ॥ ५९॥

वयस्ययेति ॥ अथ दमस्वसुः आकृतविदाभिप्रायज्ञया वयस्यया सख्या स्मितं वितत्य हसितं कृत्वा भारती इत्यभिधे उक्ता । इति किम्-हे भारति, त्वं भवन्मुखेन त्वन्मुखेन स्ववर्णनं याचतां प्रार्थयमानानां इतोऽस्मान्नृपात्परेषामन्येषां स्वनिवेदने स्ववर्णने एव त्वरां कालविलम्बासहनत्वं पश्य । एतद्वर्णनाद्विरमेति भावः । अन्यानपि वर्णयेत्यर्थः॥


कृतात्र देवी वचनाधिकारिणी त्वमुत्तरं दासि ददासि कासती ।
इतीरिणस्तन्नृपपारिपार्श्विकान्स्वभर्तुरेव भ्रूकुटिर्न्यवर्तयत् ॥ ६० ॥

 कृतेति ॥ स्वभर्तुः स्वस्वामिन एव भृकुटिः कोपवशाङ्गभङ्ग इति पूर्वोक्तं ईरिणो भाषमाणान् तान्नृपपारिपार्श्विकान्निजसेवकान् न्यवर्तयन्न्यषेधयत् । भ्रूक्षेपमात्रेण तेनैव ते निवारिता इत्यर्थः । इति किम्-हे दासि, अत्र राजवर्णने वचनाधिकारिणी भाषणा-


  1. अत्रैव द्विषद्गतिमत्त्वस्य संख्यापगमतदपगमयोरुभयोः प्राप्तस्य पूर्वत्वनिषेधस्योत्तरत्र नियमनात्परिसंख्या । तथा च सूत्रम्-‘एकस्यानेकत्र नियमनं परिसंख्या' इति जीवातुः।