पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
नैषधीयचरिते

अजस्रेति ॥ रेणुभिश्चरणेषूपास्यमानं सेव्यमानम् । किंभूतै रेणुभिः-अजस्रं निरन्तरं भूमीतटकुट्टनं धरातलचूर्णनं तेनोत्थितैः । कैरिव-अणिमा अणुपरिमाणत्वं तेनाङ्कितैर्युक्तैर्जनस्य लोकस्य चेतोभिरिवान्तःकरणैरिव । 'अणुपरिमाणं मनः' इति । किंभूतैश्चेतोभिः-रयप्रकर्षस्य वेगातिशयस्याध्ययनार्थं पठनार्थमागतैः। तद्वेगं प्रेक्षतां लोकानां चेतोभिर्वेगातिशयाध्ययनार्थमागतैरिवेत्युत्प्रेक्षा इति । मनसोऽपि सकाशादश्वस्य वेगातिशयो द्योत्यते । अथ च शिष्यो गुरुचरणयोरुपास्ते । अजस्रभूमीतटकुट्टनमुत्तमाश्वजातिः। भूमीति 'कृदिकाराक्तिनः' इति ङीष् । अणिमा मञ्जिमवत् ॥

चलाचलप्रोथतया महीभृते स्ववेगदर्पानिव वक्तुमुत्सुकम् ।
अलं गिरा वेद किलायमाशयं स्वयं हयस्येति च मौनमास्थितम् ६०

 चलाचलेति ॥ चलाचलोऽतिचञ्चलः प्रोथ ओष्ठाग्रं नासापुटं वा यस्य, तस्य भावस्तत्ता, तया महीभृते नलाय स्वकीयवेगविषये दर्पान्गर्वान्वक्तुमुत्सुकमिवोत्कण्ठितमिव । तर्हि किमिति नोक्तवानित्याशङ्कयाह-किल प्रसिद्धौ । अयं नलो हयस्याशयमभिप्रायं स्वयमात्मनैव वेद जानाति किल । अतो गिरा वाचा अलं पूर्यतामिति हेतोरिव मौनमास्थितम् । चलाचलप्रोथत्वमश्वजातिः। ज्ञातुरग्रे स्वयं स्वगुणं वक्तुमनुचितमित्यर्थः । चलाचल इति 'चरिचलिपतिवदीनां द्विर्वचनमाक्चाभ्यासस्य' इति द्वित्वमागागमश्च । 'अभ्यासकार्यमनचि' इति वक्तव्याद्, आगमदीर्घसामर्थ्याद्वा 'हलादिः शेषः' न । 'महीभृते 'क्रियया यमभिप्रैति सः-' इति संप्रदानत्वम् । गिरेति वारणार्थयोगे तृतीया । वेद इति 'विदो लटो वा' इति णल् ॥

महारथस्याध्वनि चक्रवर्तिनः परानपेक्षोद्वहनाद्यशःसितम् ।
रदावदातांशुमिषादनीदृशां हसन्तमन्तर्बलमर्वतां रवेः ॥ ६१ ॥

 महारथस्येति ।। महारथस्यायुतयोधिनः चक्रवर्तिनः सार्वभौमस्य नलस्याध्वनि मार्गे आकाशगामित्वेन न विद्यतेऽपेक्षा यस्यां क्रियायामिति परेषामन्येषामश्वानामनपेक्षयानाश्रयेण यदुद्वहनं तस्माज्जातं यद्यशस्तेन यशसा सितं श्वेतम् । अत एव रदानां दन्तानामवदाता निर्मला येंऽशवः किरणास्तेषां मिषाद् अनीदृशां परानपेक्षोद्वहनासमर्थानां रवेः सूर्यस्यार्वतामश्वानां बलं अन्तर्मुखमध्ये हसन्तम् । सूर्याश्वाः परापेक्षोद्वहनाः नाहं तथा इत्युपहासस्तेषाम् । यद्वा परानपेक्षोद्वहनात्सूर्याश्वानां बलं दन्तोज्ज्वलकिरणव्याजादन्तर्हसन्तमित्यन्वयः । स्वाभाविकं श्वेतत्वं यशोहेतुत्वेनोत्प्रेक्षितम् । सूर्याश्वानां नीलवर्णत्वात् ॥

सितत्विषश्चञ्चलतामुपेयुषो मिषेण पुच्छस्य च केसरस्य च ।
स्फुटं चलच्चामरयुग्मचिहूनैरनिन्हुवानं निजवाजिराजताम् ॥६२॥


 १ 'अत्र सापह्नवोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी । २ 'अत्रापह्नवव्यतिरेकश्लेषालंकारसंकरः इति साहित्यविद्याधरी । 'अत्र मिषशब्देनांशूनामसत्यत्वमापाद्य हासत्वोत्प्रेक्षणात्सापह्नवोत्प्रेक्षा । सा च गम्या व्यञ्जकाप्रयोगात्' इति जीवातुः। ३ 'अत्र सापह्नवोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी।