पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
५३२
नैषधीयचरिते

खण्डनं प्राप्ताया अरिवारणघटाया वैरिगजपरम्परायाः कुम्भानां गण्डस्थलानामस्थिकृटा अस्थिसमूहास्तेपामवटस्थाने गर्तलक्षणस्थाने स्थायुकः स्थितिशीलो मौक्तिकोत्करो मुक्तासङ्घस्तस्य किरः विक्षिपः । तथा-चत्वारि करिनररथतुरगलक्षणान्यङ्गानि येपामेवंभूतानि सैन्यानि येषु ते समराः सङ्ग्रामास्तेषु त्वङ्गन्तश्चित्रं गच्छन्तः तुरंगास्तेषां खुरैः चरणाग्रनखतीक्ष्णभागै: क्षुण्णासु विदलितासु कृष्टासु क्षितिषु रणक्षेत्रभूमिषु यशोलक्षणस्य क्षोणीजस्य वृक्षस्य तदुत्पादकं वीजव्रजं वीजसङ्घं क्षिपन्निव वपन्निव । यशोवृक्षस्य शुभ्रत्वात्तत्कारणेन बीजेन शुभ्रेणैव भवितव्यम् । अरिकरिकुम्भस्थमुक्ताफलानि बीजस्थाने जातानीत्यर्थः । अन्योऽपि पात्रस्थं वीजसङ्घं करेणाकृष्य हलकृष्टासु भूमिषु वपति । वैरिकरिणां हननादेतस्य वहु यशो जातमिति । तैक्ष्ण्यात्क्षुरा इव क्षुराः खुरा इति लक्षणाशब्दः । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खड्गः इति, 'डच्प्रकरणे संख्यायास्तत्पुरुषस्योपसंख्यानं निस्त्रिंशाद्यर्थम्' इति डच् । स्थायुकम् , 'लषपत-' इत्युकञ् । किरतीति किरः, 'इगुपध-' इति कः[१]

अर्थिभ्रंशबहूभवत्फलभरव्याजेन कुब्जायितः
सत्यस्मिन्नतिदानभाजि कथमप्यास्तां स कल्पद्रुमः।
आस्ते निर्व्ययरत्नसंपदुदयोदग्र: कथं याचक-
श्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु स रत्नाचलः ॥ ६७ ॥

 अर्थीति ॥ स कल्पद्रुमः प्रसिद्धः केवलं कल्पितप्रदः, अस्मिन्राजनि अतिदानमतिशयितं दानं भजति सति अकल्पितमपि ददति सति अर्थिभ्रंशाद्याचकैर्वर्जनात्पूर्वं अल्पान्यपि व्ययाभावाद्वहूभवन्ति बहूनि जायमानानि यानि फलानि तेषां भरव्याजेन भारगौरवमिषेण कुब्जायितः खर्ववदाचरितोऽतिनम्रः सन् कथमस्तास्तां महता क्लेशेन। अथ च-लज्जागोपनप्रकारेणापि तिष्ठतु । कालं वातिवाहयतु । नम्रत्वेन लज्जागोपनं युक्तमिति भावः। तु पुनः रत्नाचलो याचकश्रेण्या वर्जनात्परित्यागाज्जातेन दुर्यशसापकीर्त्या निबिडिता घनीकृता व्रीडा लज्जा यस्य एवंभूतोऽपि याचकाभावात् निर्व्यययाक्षयया रत्नसंपदा कृत्वा य उदयोऽनुस्यूता वृद्धिस्तेन उदग्र उच्चशिखरः। अथ च-अनम्र एव कथमास्ते । अपितु-लज्जितस्यानम्रत्वमयुक्तमेवेत्यर्थः । कल्पवृक्षस्य स्वर्गस्थितत्वाद्दुष्प्रापतया फलभरव्याजेन नम्रतया वा लज्जापरिहारः संभवी । रोहणाद्रेस्तु एतल्लोकनिवासाद्दुष्प्रापत्वाभावेऽपि याचकैर्वर्जनाल्लज्जातिशयान्नम्रत्वं युक्तं, तत्तु तस्य नास्तीत्याश्चर्यम् । कल्पवृक्षमेरुभ्यामप्ययमधिको दानशूर इति भावः । कुब्जायितः लोहितादेराकृतिगणत्वादाचारे [२]क्यष् ॥

सृजामि किं विघ्नमिदंनृपस्तुतावितीङ्गितैः पृच्छति तां सखीजने ।
स्मिताय वक्त्रं यदवक्रयद्वधूस्तदेव वैमुख्यमलक्षि तन्नृपे ॥ ६८ ॥


  1. 'उत्प्रेक्षा' इति जीवातुः ।
  2. 'अत्र द्रुमशैलयोर्लज्जासंबन्धेपि संबन्धोक्तेरतिशयोक्तिभेदः' इति जी. वातुः।