पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५३४
नपधीयचारते

तन्मण्डलस्यत्यर्थः । भिदां भेदं विधाय कृत्वा भवः संसार एव दुस्तरत्वादर्णवः तीर्णः। मोक्षप्राप्तेरपुनरावृत्तेरित्यर्थः । अहो आश्चर्यम् । शूरतरोयमित्यर्थः । किंभूतै:-अरिभ्यस्त्रायत इत्यरित्रं कवचं तेन विना । अथवा-अरेः अस्मात्सकाशाद्रक्षकेणान्येन शूरतरेण विना । न विद्यन्ते कर्णाः कर्णाकारा लोहकण्टका यासां एवंविधा धारा येषामेवंभूताः । कर्णान्धरन्ति कर्णधाराः न कर्णधारा अकर्णधारा एवंभूता वा । ये आशुगा बाणा अदुष्टाः शरास्तैः संभृतानि प्रोतान्यङ्गान्यवयवा येषां तेषां भावस्तत्तां गतैः प्राप्तैः। प्रत्यवयवं विद्धैरित्यर्थः । यावत् साकल्ये । अथ च -कर्णधारो नाविकः, आशुगो वायुः ताभ्यां कृत्वा संभृतानि परिपुष्टान्यङ्गानि रज्जुस्तम्भादीनि तरणोपायभूतानि च येपाम् । कर्णधारानुकृलवायुना वा संभृतान्यङ्गानि येषामेवंभूता ये न भवन्ति तद्भावं गतै:। अरित्रण जलक्षेपणकाष्ठेन विना तस्याप्यभावे यावत्तरणे: सकलाया नौकाया भेदं विधाय सकलां नौकां स्फोटयित्वा निमज्ज्य ब्रुडित्वार्णवस्तीर्णः हे भव शिव, अहो अत्याश्चर्यम् । कर्णधाराद्यभावे नौकायाश्च भेदे ब्रुडित्वा तरणं तत्रापि समुद्रस्येत्यत्याश्वर्यम् । अघटमानघटने चाश्चर्यसूचकं शिवनामोच्चारणं क्रियते । 'कर्णधारस्तु नाविकः, 'नौकादण्डः क्षेपणी स्यादरित्रम्,"स्त्रियां नौस्तरणिस्तरिः,"द्युमणिस्तरणिर्मिन्त्र:' इत्यमरः॥


यदस्य भूलोकभुजो भुजोष्मभिस्तपर्तुरेव क्रियतेऽरिवेश्मनि ।
प्रपां न तत्रारिवधूस्तपखिनी ददातु नेत्रोत्पलवासिभिर्जलैः ॥ ७२ ॥

 यदिति ॥ भूलोकभुजो भूपालस्यास्य भुजोष्मभिर्वाहुप्रतापैः अरिवेश्मनि अतिसंतापकारित्वात्तपर्तुरेव ग्रीष्मर्तुरेव यद्यस्मात्क्रियते तस्मात्तत्र ग्रीष्मतौं तपस्विनी दीना अरिवधूः नेत्राण्येवोत्पलानि तेषु वासिभिर्जलैरस्त्रुभिः । अथ च-नेत्रतुल्यकमलानां यो वासः परिमलः स विद्यते येषु तैर्जलैः कृत्वा प्रपां पानीयशालां न ददातु । अपितु ददात्वेव । तपस्विनी ग्रीष्मर्तौ सुगन्धिभिरुदकैः प्रपां करोति । अनेन पतिमारणाच्छोकव्याप्ता सर्वाऽप्यरिनारी रुरोदैवेति भावः । 'प्रपा पानीयशालिका' इत्यमरः॥

एतद्दत्तासिघातस्रवदसृगसुहृद्वंशसाद्रैन्धनैत-
 द्दोरुद्दामप्रतापज्वलदनलमिलद्भूमधूमभ्रमाय ।
एतद्दिग्जैत्रयात्रासमसमरभर पश्यतः कस्य नासी-
 देतन्नासीरवाजिव्रजखुरजरजोराजिराजिस्थलीषु ॥ ७३ ॥

 एतदिति ॥ आजिस्थलीषु संग्रामभूमिषु एतन्नासीरस्य एतत्सेनामुखस्य पुरो गच्छन्तो वाजिव्रजा अश्वसंङ्घास्तेषां खुरेभ्यश्चरणाग्रेभ्यो जाता तैरुद्धूलिता रजोराजी रेणुपङ्क्ति: एतस्य दिग्जैत्रयात्रा दिग्जयकारिण्यो या यात्रावैरिसंमुखगतयस्तासु असममतुल्यं समरस्य भरं संमर्द पश्यतः कस्य जनस्य एतेन राज्ञा दत्तेभ्योऽसिघातेभ्यः स्त्रवत् असृग्रक्तं येषाम् । एतेन दत्तोऽसिघातो येभ्यः, अत एव स्रवदसजो वा । असुहृद्वंशा अरिसङ्घाः । अथ च -तद्रूपा वेणवः। त एव सार्द्राणीन्धनानि दाह्यकाष्ठानि