अयं गुणौघैरनुरज्यदुत्कलो भवन्मुखालोकरमोत्कलोचनः । |
अयमिति ॥ हे भैमि, गुणौघैः सौन्दयादिगुणौघाः अनुरज्यन्तोडनुरक्ता भवन्तः उत्कला लक्षणया तद्देशनिवासिनो लोका यत्र । अथ च गुणौघैः सौन्दर्यादिगुणौघैरनुरज्यन्त उत्कृष्टाश्चतुःषष्टिकला यत्र तरूपलक्षितो वा अयं नृपः यस्माद्भवन्मुखालोके रसेनानुरागेणोत्कलोचनोत्कण्ठितनेत्रः । अस्तीति शेषः । तस्मात् ननु हे रूपामृतवापि सौन्दर्यामृतदीर्घिके सुन्दरि, तवापि दृशोस्तारा उज्ज्वला विशाला चञ्चला वा तरङ्गाः पुनःपुनर्व्यापाररूपाः कल्लोलास्तेषां भङ्गयः प्रकारविशेपाः अमुं स्पृशन्तु । अयं यां पइयति. त्वमप्येनं कटाक्षैः पश्य योग्यत्वादिति भावः । अनुरज्यदुत्कल इत्यनेन जनानुरञ्जनात्संपदाधिक्यं सूचितम् । अन्यस्यामपि जलवाप्यां चञ्चलतरङ्गभङ्गयो भवन्ति । अनुरज्यदिति इयनो ङित्त्वान्नलोपः ॥
अनेन सर्वार्थिकृतार्थताकृताह्रतार्थिनौ कामगवीसुरद्रुमौ । |
अनेनेति ॥ कामगवीसुरद्रुमौ कामधेनुकल्पवृक्षौ मिथः अन्योन्यं क्रमेण पयःसेचनपल्लवाशने दुग्धसेचनपल्लवभोजने प्रदाय प्रकर्षेण दत्त्वा दानस्य व्यसनमतिथये प्रत्यहमवश्यकरणीयतया प्राप्तस्याग्रहं समाप्मुतः समाप्तिं नयतः। कस्मादित्यत आह- किंभूतौ-सर्वार्थिनां सर्वयाचकानामभीष्टदानात् या कृतार्थता जन्मसाफल्यं कृतार्थत्वं तां करोत्येवंभूतः कृत् तेन अनेनातिदानात्स्वं प्रति आहृता आनीता अर्थिनो याचका ययोस्तौ । अर्थ्यन्तराभावात्कामगव्या कल्पवृक्षस्य दुग्धसेकः कृतः,तेन च स्वपल्लवा भक्षयितुं तस्यै दत्ता इत्यर्थः । दानशूरोयमिति भावः ॥
नृपः कराभ्यामुदतोलयन्निजे नृपानयं यान्पततः पदड्वये । |
नृप इति ॥ अयं नृपः निजे पदद्वये प्रणामवशात्पततो नम्रान्यान्नृपान्कराभ्यां कृपया शिरसि धृत्वा उद्तोलयदुत्थापयामास । तदीया राजकीया याः चूडा मुकुटास्तासां कुरुविन्दरश्मिभिर्माणिक्यशोणशोभाभिः कृत्वा इयमेतस्य करपादयोः रञ्जना रक्तिमा स्फुटा दृश्यत इति शेषः[१]॥
यत्कस्यामपि भानुमान्न ककुभि स्थेमानमालम्बते |
- ↑ 'स्वाभाविककरपादरागे राजकिरीटमाणिक्यमयूखरञ्जनात्वमुत्तोलनेनास्यानेकराजविषयत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः' इति जीवातुः॥