पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
५३८
नैषधीयचार

एषैतद्भुजतेजसा विजितयोस्तावत्तयोरौचिती
 धिक्तं वाडवमम्भसि द्विषि भिया येन प्रविष्टं पुनः ॥४१॥

 यदिति ॥ भानुमान् सूर्यः कस्यापि ककुभि दिशि स्थेमानं स्थिरत्वं यत् नालम्बत्ते अङ्गीकरोति किंतु सर्वदा परिभ्रमत्येव । दावाग्निना वनवह्निना च धनं अतिगहनं काननं तल्लक्षणं एकं केवलं शरणं रक्षितारं प्राप्तेन तदेकाश्रयेण यत् जातम् । एतस्य भुजतेजसा विशेषेण जितयोस्तयोः सूर्यदावानलयोः तावन्निश्चितं एषा औचिती युक्ततरता । भीतस्य व्याकुलता वनाश्रयणं च युक्तमित्यर्थः । मानी हि जितः सन् लज्जया मुखमदर्शयन्पुनदर्शने भयेनैकस्मिन्देशे वासं त्यक्त्वा सर्वत्र परिभ्रमति । सर्वथान्यस्य प्रवेष्ठमशक्यं घनं वनं वा विशति । ताभ्यां युक्तमेव कृतमित्यर्थः । तं वाडवं वडवानलं पुनः धिक् । येन अस्माद्भिया द्विपि सहजशत्रौ अम्भसि समुद्रजले प्रविष्टं निमग्नम् । मानी पराजितोऽपि वैरिणं शरणं नैति, अयं तु गत इत्यभिमानित्वाभावान्निन्द्य एवेत्यर्थः । अथ च -वाडवो ब्राह्मणः । ततश्च ब्राह्मणत्वाच्छत्रावपि भयेन प्रवेशो युक्तः। शत्रुणा च तस्य रक्षणं युक्तमिति सूचितम् । सूर्यादेरप्येतदीयं तेजोऽधिकमिति भावः । स्थमा इति, स्थिरशब्दाद्भावे पृथ्वादित्वादिमनिचि 'प्रियस्थिर-' इति स्थादेशः । शरणं प्राप्तेन, 'द्वितीया श्रिता-' इति स[१][२]मासः॥

अमुष्योर्विभर्तुः प्रसृमरचमूसिन्धुरभवै-
 रवैमि प्रारब्धे वमथुभिरवश्यायसमये ।
न कम्पन्तामन्तः प्रतिनृपभटा म्लायतु न त-
 द्वधूवक्राम्भोजं भवतु न स तेषां कुदिवसः ॥८२॥

 अमुष्येति ॥ अमुष्य उर्वीभर्तृ रणसंभवात् । प्रसृमराः प्रसरणशीलाश्चमूसिन्धुराः सेनागजास्तेभ्यो भवैः समुत्पन्नैर्वमथुभिः करिकराग्रजातैर्मदजलबिन्दुभिः जलबिन्दुभिः, वा अवश्यायसमये नीहारकाले वा हिमर्तौ प्रारब्धे निर्मिते सति प्रतिनृपभटा वीरा अपि रिपुनृपा अन्तः तन्मध्ये स्वीये मनसि वा न कम्पन्ताम् । अपि तु अस्माद्भयेन युक्त एव कम्पस्तेषाम् । तथा तेषां वध्वो रमण्यस्तासां वक्राम्भोजं न म्लायतु । अपितु भाविनः प्राणेशवधस्य निश्चितत्वात्तासां मुखस्य म्लानिरुचितैव । तथा–स प्रसिद्धो रणवासरस्तेषां वैरिणां तत्स्त्रीणां च कुत्सितो दिवसोऽशुभरूपो वासरो न भवतु । अपितु भवत्येव । वधनिश्चयाद्वैरिणां तत्स्त्रीणां च शोकवशादित्यहमवैमि । हिमर्तौ शरीरकम्पः कमलग्लानिर्दुदिनं च भवति । शूरतरोयं गजपतिरिति भावः । 'सिन्धुरभरैः-' इति पाठे गजसङ्घैः कर्तृभिर्वमथुभिः कृत्वेति व्याख्येयम् । 'वमथुः करिशीकरः, 'अवश्यायस्तु नीहारः' इत्यमरः । प्रसृमर इति, 'सृघस्यदः' इति क्मरच् । अवश्याय इति 'श्याव्द्यधा' इति णः । तेषां 'पुमान्स्त्रिया' इत्येक[३]शेषः॥


  1. 'भीत्रार्थानाम्-' इत्यपादानत्वे पञ्चमी । 'अस्य' इति मुद्रयतां वाङ्गानां तु प्रमादः ।
  2. अत्र स्वाभाविकस्य सूर्यादिपर्यटनादरेतद्भीहेतुकत्वोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या' इति जीवातुः।
  3. अत्र करशीकरादौ नीहारादिरूपणाद्रूपकालंकारः' इति जीवातुः।