पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४३
द्वादशः सर्गः


संभवादैग्दाहैरिव दिग्दाहाद्दिशामौत्पातिकनिद्दैतुकलोद्दितदीप्तैः प्रभचैरिव मघवता इन्द्रेण वृष्टैर्मोचितैर्भस्मभिः कन्वा धृनं कृतमुद्धलनमङ्गलेपो यया मा ! इति किम- शंभोः दिनरात्रिसंधिरूपायां वेलायां काले भवं सांधिवेलं सायंसंध्याकालसमुचितं नटनं [१]नृत्तरूपं व्रतं नियमो मा भाजि अग्नो मा भृदिति स्वयं नृत्यतोत्यर्थः । यतः-अष्टमृतैजलाधष्टमूर्तेः शंभोरेका मूर्तिः पृथिवी ! शिवो हि संध्यासमये नृत्यं करोति तन्मूर्तित्वात्तयापि नृत्तमारब्धमित्यर्थः ! यमुद्दिदय अयं प्रयाणं करोति तस्मिन्देशे दिग्दाहभस्मदृष्टिभूकम्परक्तवृष्टिलक्षणास्तत्पराजयसूचका उत्याता भवन्ति । अयमेव विजयत इत्यर्थः । जलाकेंन्द्वात्मखश्वग्निवायवः शिवमृर्तयः' ! 'यत्सेनयाभिगमनमरौ तदभिषेणनम्’ इत्यमरः । यद्भर्तुः. भशब्दम्य पत्यर्थत्वाद्याजकादित्वात्समासः । सेनयाभिगमनमभिपेणनम्, 'सत्यापपाश-' इति णिचि न्युट् । उपसर्गामुनोति-' इति पत्वम् । दैग्दाहैरित्यत्र 'तस्येदम्' इत्यण् । संधिवेलायां भवं सांधिवलम. संधिवेलाइत्यण् । इन्द्रः शिवस्य भस्माहरणेऽधिकारी । अत एव दिशां दाहं कन्या भस्मापितवानिति केचित् ॥


  प्रागेतद्वपुरामुखेन्दु सृजतः स्रष्टुः समस्तस्त्विषां
   कोषः शोषमगादगाधजगतीशिल्पेऽप्यनल्पायितः ।
  निःशेषद्युतिमण्डलव्ययवशादीषल्लभैरेष वा
   शेषः केशमयः किमन्धतमसस्तोमैस्ततो निर्मितः ॥ ९३ ॥

प्रागिति ॥ प्राक् सर्गादौ अगाधे जगतीशिल्पेऽप्यमर्यादत्रैलोक्यनिर्माणविषयेऽपि यः त्विषां समस्तः सकलः कोशो भाण्डागारसंचयः नाल्पायितोऽल्पवन्नाचरितः,किं तु तावानेवाक्षयः स्थितः । आमुखेन्दु मुखचन्द्रमभिव्याप्य एतस्य वपुः सृजतः स्रष्टुर्ब्रह्मणः संवन्धी स त्विषां समस्तः कोषः शोषं समाप्तिमगात्प्रापक्षयितः । यतः-चरणप्रभृतिमुखपर्यन्तावयवनिर्माणार्थमेव पूर्णो, न तु केशनिर्माणार्थं ततस्तस्मात्कान्तिक्षयाद्धेतोः केशमयः केशप्रचुरः केशरूपोऽस्य एष शेषो भागः निःशेषं द्युतिमण्डलं समस्तः तेजोराशिः तस्य व्ययवशान्नाशवशात् 'भाभावस्तमः' इति न्यायात् । शषल्लभैः सुप्रापैः सुलभैरन्धतमसस्तोमैर्गाढान्धकारसङ्घैः कृत्वा किं वा निर्मित इत्युत्प्रेक्षा। सुन्दरतरोऽयं केशाश्चातिनीला घनाश्चेति भावः । ईपल्लभैः, अकृच्छ्रार्थे खल् । 'उपसर्गादेव खल्घञोः, नान्यत्र' इति नियमान्नुमभावः । अन्धतमसम्, 'अवसमन्धेभ्यस्तमसः' इत्यच् ॥


  तत्तद्दिग्जैत्रयात्रोद्धुरतुरगखुराग्रोद्धुतैरन्धकारं
   निर्वाणारिप्रतापानलजमिव सृजत्येष राजा रजोभिः ।
  भूगोलच्छायमायामयगणितविदुन्नेयकायो भियाभू-
   देतत्कीर्तिप्रतानैर्विधुभिरिव युधे राहुराहूयमानः ॥ ९४ ॥



  1. 'अत्रोत्प्रेक्षालंकारेण लोकातिशयतेजो व्यज्यते' इति जीवातुः।