पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४४
नैषधीयचरिते


 नदिति । एष राजा तासां तासां प्राच्यादीनां सर्वासां दिशां जैत्रा जयकारिण्यो यात्रास्तामृद्भुरा उन्साहवन्तोऽतिबलिनस्तुरगास्तेषां खुराग्रैरुद्धतै रजोभिः कृत्वा अन्धकारं ,सृजति । कथंभूतमिव-निर्वाणः शान्तोऽरिप्रतापानलस्तस्मादनन्तरं जातमिव । अन्धकारं सूर्यप्रकाशस्याच्छादितत्वात्तमः सृजति । अनले शान्ते भाभावरूपोऽन्धकारो भवति । एतस्य दिग्जययात्रायां प्रारब्धायां सर्वेषामपि वैरिणां प्रतापः शान्तो भवतीति भावः । तुरंगवाहुल्यं च । तथा-एतस्य कीर्तिप्रतानैर्यशोविस्तारैरेव विधुभिर्बहु- भिश्चन्द्रैः युधे युद्धार्थमाहृयमानः स्पर्धापूर्वमाकारित एव राहुः भियेव भयेनैव भू-. गोलस्य भूमण्डलस्य छायायां मायामयेन मायारूपेण व्याजेन गणितविद्भिज्योतिपिकै- र्गणितशास्त्रप्रामाण्येनोन्नेयस्तर्क्यः कायः शरीरं यस्य एवंभूतोऽभूत् । एतत्कीर्तिसमूह- चन्द्रान्दृष्ट्वा एकस्य चन्द्रस्य जेतुं शक्यत्वादेषां तु बहूनां जेतुमशक्यत्वादाहुणा स्वं गोपायितुं भूगोलच्छायरूपं मायामयं शरीरं धृतमित्यर्थः । ज्योतिःशास्त्रे च भूगोल- च्छायैव राहुन्वनोक्ता ! अन्योपि शत्रोर्भीतः स्वं गोपायितुं रूपान्तरं धारयति । एता- दृशो यशस्वी कोपि नास्तीति भावः । निर्वाण इति, "निर्वाणोवाते' इति निपातः । 'च्छायमाय-इति विभापा सेना-' इति [१]


  आस्ते दामोदरीयामियमुदरदरीं यावलम्व्य त्रिलोकी
   संमातुं [२]शक्नुवन्ति प्रथिमभरवशादत्र नैतद्यशांसि ।
  तामेनां पूरयित्वा निरगुरिव मधुध्वंसिनः पाण्डुपद्म-
   च्छद्मापन्नानि तानि द्विपदशनसनाभीनि नाभीपथेन ॥ ९५॥

  आस्ते इति ॥ येयं त्रिलोकी लोकत्रयी दामोदरीयामुदरर्दरीं श्रीविष्णोर्जठरकंदरामबलम्व्याश्रित्य आस्ते । अत्रास्यां दामोदरोदरस्थितायां त्रिलोक्यां प्रथिमभरवशान्महत्त्ववाहुल्यादतिसंमर्दात् संमातुं सुखेन स्थातुं न शक्रवन्त्यसमर्थानि सन्ति, तान्यतिप्रसिद्धानि द्विपदशनैः सनाभीनि सदृशान्यतिगौराणि एतस्य यशांसि तामेतां विष्णूदरदरीस्थितां तत्सहितां त्रिलोकीं पूरयित्वावशिष्टानि तामुदरदरीं तत्स्थां त्रिलोकी च परिपूर्य अवशिष्टा वा पाण्डुपद्मच्छद्मपन्नानि नाभिसमुत्पन्नधवलकमलव्याजमापन्नानि तदाकाराणि सन्ति मधुध्वंसिनो विष्णोर्नाभीरूपेण पथा मार्गेण निरगुरिव निर्जग्मुरिव । संकटवासयातनाभिया वहिनिर्गतानीव । श्रीविष्णोर्नाभौ धवलं कमलमन्यथोप्रेक्षितम् । पाण्डुरं पद्मं न किंत्वेतद्यशांस्येव । करिदन्तधवलकमलतुल्यान्यतिभूयांसि चास्य यशांसीति भावः । दामोदरीयाम् , 'वृद्धाच्छः' । पृथ्वादित्वात्प्रथिमा । नाभीपथेन ऋगादिना समासा[३]न्तः॥


  1. 'ज्योतिःशास्त्रप्रमाणकं यद्राहोर्भूच्छायात्मकत्वम् । तदेत्कीर्तिचन्द्रभिया' इत्युत्प्रेक्षा । तया च राहुभीषकत्वेन कीर्तिचन्द्राणां प्रसिद्धचन्द्राद्ध्यतिरेको व्यज्यते' इति जीवातुः
  2. ’शक्त्तिमन्ति इति जीवातुसुखावबोधस्ँअतपाठः
  3. 'अत्र पद्मच्छद्मना निरगुरिवेति साप दृवोत्प्रेक्षा । सा च त्रिलोकीयशसोराधाराधेययोरानुरूप्यविलक्षणालंकारोत्थापितेति संकरः' इति जीवातुः