पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४६
नंषधीयचरिते

धनुर्धगणां सीमा पर्यन्तावधिः स्फुटं विख्यातः प्रसिद्धः । एवंविधो धनुर्धर; सज्जनश्च कोपि नास्तीत्यर्थः । धनुःपृष्टदर्शनेनैतस्य पलायनाभावः सूचितः[१]

अस्यारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौ
 सीत्कारं च न संमुखौ रचयतः कम्प च न प्राप्नुतः ।
तद्युक्तं न पुनर्निवृतिरुभयोर्जागर्ति यन्मुक्तयो-
 रेकस्तत्र भिनत्ति मित्रमपरश्चामित्रमित्यद्भुतम् ॥ ९८

 अस्येति ॥ अस्य नृपतेः उभौ संख्ये सङ्ग्रामे क्रमेण संमुखौ एतत्संमुखं वैरिसंमुखं च पतन्तौ सन्तौ सीत्कारं दुःस्त्राभिव्यञ्जकं दन्तमध्यनिर्गतं पक्षवातजनितं च ध्वनिविशेषं यन्न रचयतः कुरुतः । यच्च मरणभीतिजनितं दुनिर्गतत्वजनितं च कम्पं न प्राप्नुतः। उभौ कौ-अरिप्रकरो वैरिसङ्घः, शरश्च एतौ द्वौ । तथा मुक्तयोः प्राप्तमोक्षधनुश्च्युतयोः यत् पुनर्निवृत्तिः जन्म प्रत्यागमनं च न जागर्ति भवति तत्सर्वं युक्तं उचितमेव । द्वयोरपि तुल्यधर्मत्वात् । तर्हि विलक्षणं किमित्याशङ्कायामाह-तत्र तयोर्द्वयोर्मध्ये एको वैरिसङ्घः मित्रं सुहृदम् । अथच-सूर्य भिनत्ति । अपरश्च शरोऽमित्रं सूर्यव्यतिरिक्तम् । अथ च-वैरिणं भिनत्ति द्विधाकरोतीत्यद्भुतमाश्चर्यम् । तुल्यकर्मणोरतुल्यकर्मारम्भकत्वस्य विरुद्धत्वादित्यर्थः । चावन्योन्यसमुच्चये । दुःखभयराहित्येन रणे संमुखः पतितः शत्रुसङ्घः 'द्वाविमौ पुरुषौ लोके' इति वचनात्सूर्यमण्डलं भित्त्वा मुक्तिं प्राप्तः । अदृढमुष्टितया मुक्तो बाणः कम्पसीत्कारौ रचयति । तदकरणाञ्च दृढमुष्टितास्य सूचिता । दृढमुष्टित्वेन मुक्तो वैरिमध्ये न पुनरायाति । वैरिणं हन्तीत्यर्थः । शूरतरोऽयं शत्रुमात्रं हतवानिति भावः । बाणपक्षे-सम्यक् मुखं पुखमग्नं वा [२]यस्येति ॥

धूलीभिर्दिवमन्धयन्वधिरयन्नाशाः खुराणां रवै-
 र्वातं संयति खञ्जयञ्जवज[३]वैः स्तोतॄन्गुणैर्मूकयन् ।
धर्माराधनसंनियुक्तजगता राज्ञामुनाधिष्ठितः
 सान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरंगोऽपि गाम्॥९९

 धूलीभिरिति ॥ धर्माराधने सम्यक् नियुक्तं प्रेरितं जगत् येन एवंभूतेनामुना राज्ञाधिष्ठित आरूढस्तुरंगोऽपि पशुरपि धूलीभिः खुरजरजोभिर्दिवं स्वर्गलोकमन्धयन्नन्धं


  1. इतः परम्-"दोघशब्दो नपुंसकोपि 'दोषणी' इति भाष्यप्रयोगात् । 'भुजबाहू प्रवेष्टो दोः' इति साहचर्यात्पुंस्यपि । स्त्रियामपि दोर्दोषा च भुजा बाहुः पाणिर्हस्तः करस्तथा, इति धनंजयः” इत्यधिकमेकस्मिन्पुस्तके । 'अत्र गुणग्राहिसीमात्वस्य पूर्ववाक्यार्थहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः' इति जीवातुः।
  2. 'अत्र अमित्रं भिनत्ति' इत्युक्तम् 'मित्रं न भिनत्ति' इति च प्रतीयते । ईदृशेऽभिमुखपतिते तस्य विरोधादद्बुतम् । मित्रमण्डलभेदनस्य वीरपुरुषायत्तत्वेनात्र 'शत्रून्भिनत्ति' इत्यविरोधाद्विरोधाभासोलंकारः' इति जीवातुः
  3. 'जवजयैः' इति जीवातुसुखावबोधासमतपाटः