पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५०
नषधीयचरित

 अर्थति ॥ अथ सखी भीमसुताया इङ्गितादननुरागसूचकात् भृवेल्लनादिचेष्टितात्सरस्वतीमित्यवदत् । इति किम्-हे वाणि, जनैः अस्याकीतियदि नेष्यते वा नाभिलष्यत एव तत्तर्हि मयापि सा अस्य अर्कातिः खलु निश्चितं नेष्यते नाभिलष्यते । यद्यपि तुल्यं तथापि परं कश्चिद्विशेषोऽस्ति सभायाः सभालोकस्य श्रवःपूरतमालवल्लितां कर्णाभरणतमालवल्लित्वं नेप्यते प्रापयिष्यते । जनानामसंमतां शशविषाणादिवदसतीमप्यस्याकीर्तिमेव सर्वो सभां श्रावयिष्यामीत्यर्थः । वाण्यास्तवर्णननिवारणं चकारेति भावः । अकीर्तेनीलत्वात्तमालवल्लित्वम् । इष्यते, इषेः कर्मणि । नेष्यते णीञः प्रधानकमणि लट् ॥

 अकीर्तिमेव वर्णयति-

अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया
 प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्तयः ।
गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरा-
 न्मूकानां प्रकरण कूर्मरमणीदुग्धोदधे रोधसि ॥ १०६ ॥

 अस्येति ॥ हे वाणि, मूकानां प्रकरणास्य क्षोणिपतेरकीर्तयः किल प्रसिद्धं निश्चितं वा कूर्मरमणी कच्छपिका तस्या दुग्धादुत्पन्नस्योदधे रोधसि तीरे गीयन्ते । किंभूताः- परार्धाद्गणितावधेः सकाशात्परयाधिकया संख्यया लक्षीकृता गणिताः परार्धादप्यधिकाः तथा प्रज्ञाचक्षुभिः जात्यन्धैरवेक्ष्यमाणं दृश्यमानं तिमिरं तत्प्रख्यास्तत्तुल्या अति- श्यामाः। किंभूतेन प्रकरेण-अष्टमं स्वरं निषादादिसप्तस्वरातिरिक्तं कलयताङ्गीकुर्वता। तथा-वन्ध्योदराज्जातेन । एवमस्याकीर्तयः सन्तीत्येतदकीर्तीः सभा श्राविता । परार्धाधिका संख्या, अन्धस्य दर्शनशक्तिः, तिमिरस्य चाक्षुषरूपत्वं स्वरस्याष्टमत्वं वन्ध्योदराज्जन्म कच्छपिकादुग्धं एतानि सर्वथा यथा न सन्ति । तथैतद्विशेषणयुक्ता अस्याकीर्तयोऽपि । न सन्तीति विपर्यवसानंवृत्त्या वर्णनैव कृता । उपहासार्थ त्वसंगतोक्तिः। आ सामस्त्येन कीर्तय आकीर्तयः पूर्वोक्तविशेषणविशिष्टा अस्य समस्ताः कीर्तयो गीयन्ते किल । पर्यवसानवृत्त्या अस्य कीर्तयो न सन्त्येवेति निन्दैव कृतेति वा । कच्छपी च दर्शनेनैवापत्यानि पालयति न दुग्धेनेति प्रसिद्धिः। प्रज्ञाचक्षुषो योगिनो ज्योतिर्विलोकननिष्ठास्तिमिरं न पश्यन्तीति वा । तिमिरवत्प्रख्यायन्ते मूलविभुजादि[१]त्वात्कः॥

तदक्षरैः सस्मितविस्मिताननां निपीय तामीक्षणभङ्गिभिः सभाम।
इहास्यहास्यं किमभून्नवेति तं विदर्भजा भूपमपि न्यभालयत॥१०७॥

 तदक्षरैरिति ॥ विदर्भजा इहास्यां सभायां एतदीयवचनविषये वा अस्य वर्णितस्य नृपस्य हास्यं किमभूत्कि वा नाभूदिति कारणात्सभावत्तमपि भूपं न्याभालयदौदासीन्येन संमुखदृष्ट्या ददर्श नत्वनुरागादित्यर्थः । किं कृत्वा-अनुरागाभावेऽपि हासरस-


  1. इह निन्दया स्तुतिप्रतीतेर्व्याजस्तुतिभेदोलंकारः' इति जीवातुः।