पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
नैषधीयचरिते

धितिं सूर्यमिव । सूर्यविशेषणमेव वा। स्फुटेति । 'कमलपाणिः सूर्यः' इत्यागमात् । सूर्योऽपि जवनैरश्वैर्याति । मयूखा यथा सदा सूर्यसहचारिणः, तथाश्ववारा अपि । तेन तेषां स्वरहस्यवेदित्वमुक्तम् । 'जवनस्तु जवाधिकः' इत्यमरः । 'प्रकाशोऽतिप्रसिद्धे स्यात्प्रकाशातपयोः स्फुटे' इति विश्वः । मीनाति हिनस्ति तम इति मयूखः 'मीनातेरुखः' इत्यौणादिक ऊखप्रत्ययः । अश्वान्वृण्वते इत्यश्ववाराः । 'कर्मण्यण् । 'जुचङ्कम्य-' इति युचि जवनः ॥

चलन्नलंकृत्य महारयं हयं स्ववाहवाहोचितवेषपेशलः ।
प्रमोदनिःस्पन्दतराक्षिपक्ष्मभिर्व्यलोकि लोकैर्नगरालयैर्नलः॥६६॥

 चलन्निति ॥ नगरालयैः नगर आलयः स्थानं येषां तैर्नगरवासिभिर्लोकैर्नलो व्यलोकि स्वेच्छया दृष्टः । किंभूतः-महारयमतिशयितवेगं हयमश्वं स्वाधिष्टानेनालंकृत्य चलन्मध्येमार्गं गच्छन् । पुनः किंभूतः-स्वस्य वाहोऽश्वस्तल्लक्षणो वाहो वाहनं तस्योचितो वेषोऽलंकारादिस्तेन पेशलो रमणीयः । यद्वा-वाहवाहस्याश्ववारस्य । यद्वा-वाहस्थाश्वस्य वाहे संचारणे उचितो वेषो नेपथ्यम् । किंभूतैर्लोकः-प्रमोदेनातिशयितानन्देन निःस्पन्दतराण्यक्षिपक्ष्माणि नेत्रपक्ष्माणि येषां तैः । निर्निमेषं सादरावलोकनं कुर्वद्भिरित्यर्थः । महारयमित्यनेनाष्टभिर्मात्राभिर्धनुःशतमात्रभूलङ्घनसामर्थ्यं सूचितम् । 'वाहस्तु मीनभेदे वृषे हये' इति विश्वः। 'पेशलः सुन्दरो दक्षः' इति च । 'निःस्पन्द' इति पाठः । नगाः सन्त्यस्मिन्निति नगरम् । 'ऊषसुषि-' इत्यत्र 'नगपांसुपाण्डु-' इति वचनात् रः ॥

क्षणादथौष क्षणदापतिप्रभः प्रभञ्जनाध्येयजवेन वाजिना।
सहैव ताभिर्जनदृष्टिवृष्टिभिर्वहिः पुरोऽभूत्पुरुहूतपौरुषः ॥ ६७ ॥

 क्षणादिति ॥ अथानन्तरमेष नलः वाजिनाश्वेन ताभिर्जनदृष्टिवृष्टिभिः सहैव क्षणान्निमेषमात्रेण पुरो नगराद्बहिरभूत् । किंभूतो नलः-क्षणदा रात्रिस्तस्याः पतिश्चन्द्रः तद्वत्प्रभा यस्य । तथा पुरुहूत इन्द्रस्तद्वत्पौरुषं सामर्थ्यं यस्य । कीदृशेन वाजिना-प्रभञ्जनेन वायुनाध्येयोऽध्येतव्यो जवो वेगो यस्मात् । क्षणादिति विभक्तिप्रतिरूपकमव्ययम् । 'अपपरिबहिः-' इति पञ्चमीसमासविधानादेव ज्ञापकाद्बहिर्योगे पञ्चमी ॥

ततः प्रतीच्छ महरेति भाषिणी परस्परोल्लासितशल्यपल्लवे ।
मृषा मृधं सादिबले कुतूहलान्नलस्य नासीरगते वितेनतुः ॥ ६८ ॥

 तत इति ॥ ततः पुरनिर्गमानन्तरं नासीरं सेनामुखं गते प्राप्ते नलस्य सादिबलेऽश्वारोहसैन्ये कुतूहलात्कौतुकादत एव मृषा अलीकं मृधं युद्धं वितेनतुश्चक्रतुः । किंभूते


१ 'अत्रोपमाश्लेषरूपकमलंकारः' इति साहित्यविद्याधरी। २ 'अत्र छेकानुप्रासोऽलंकारः' इति साहित्यविद्याधरी । 'वृत्त्यनुप्रासोऽलंकारः' इति जीवातुः । ३ 'अत्र छेकानुप्रासोपमासहोक्तीनां संकरः' इति साहित्यविद्याधरी। 'वेगातिशयोक्तिः' इति जीवातुः ।