पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५१
द्वादशः सर्गः।


कृताभिरीक्षणभङ्गिभिग्वलोकनप्रकारविशेस्षैस्तां सभां निषीय सादरमवलोक्य । किंभृतां सभाम् - विध्युपक्रमैनिषेधे पयेर्वासतैः पूर्वोक्तरक्षरः कृत्वा सस्मितानि, सविस्मितानि साश्चर्याणि वा आननानि यम्यास्ताम् । इह नृप आस्यहाम्यं जातं न वेति वा । स्मितसहितानां विगतस्मितन्वं विरुद्धम् । विरोधाभासः ॥

नलान्यवीक्षां विदधे दमस्वसुः कनीनिकागः खलु नीलिमालयः।
चकार सेवां शुचिरक्ततोचितां मिलन्नपाङ्गः सविधे तु नैषधे ॥१०८॥

 नलेति ॥ पतिव्रताया भैम्या नलान्यावलोकनमनुचितमित्याशङ्कां परिहरन्नुत्तरसर्गे वर्णयिप्यमाणस्य नलस्य प्रस्तावनां करोति-दमस्वमुः कनीनिका नेत्रतारा नलादन्यस्य नृपस्य वीक्षामवलोकनरूपं आगः अपराधं विदधे चक्रे । किंभूता-खलु यस्मात् नीलिम्नः कालिम्न आलयः स्थानम् । मलिनो हि निषिद्ध मात्ररति । अपाङ्गस्तु कटाक्षः पुनः सविधे द्वितीयपङ्क्तौ त्रिचतुरेभ्योऽनन्तरमुपविष्टे नैषधे सत्यनले मिलन्संवद्धः सन् शुचिरक्ततोचितां धवलरक्तत्वयोग्यां संवां चकार । धवलरक्तत्वलक्षणसामुद्रकलक्षणयुक्तोऽपाङ्गस्तु नल एव संलग्नोऽभूदित्यर्थः । अथ च-शुचेः पापभीरोरनुरक्तस्य च भावेन स्वामिभक्त्योचितामिति वा । स्वामिभक्तो हि स्वामिनमेव सेवते नत्वन्यमित्यर्थः । कटाक्षेणान्यावलोकने दोषः ऋजुदृष्ट्या त्वन्यविलोकने दोषो नेति न पातिव्रत्यक्षतिः क्वापि । नलमेव कटाक्षविलोकयति स्मेति भावः । इन्द्रादिषु चतुर्ष्वलोकनलेषु सत्स्वपि सत्यनलत्वेऽज्ञातेऽपि तत्रैव सत्यनल एवानुरागबाहुल्याददृष्टवशात्कटाक्षनिरीक्षणं युक्तम् ॥

इदानीं श्लोकचतुष्टयेन परस्परानुरागं वर्णयति-

दृशा नलस्य श्रुतिचुम्बिनेषुणा करेपि चक्रच्छलनम्रकार्मुकः ।
स्मरः पराङ्गैरनुकल्प्य धन्वितां जनीमनङ्गः स्वयमार्दयत्ततः ॥१०९॥

 दृशेति ॥ ततो भैमीकटाक्षविलोकनानन्तरं स्वयमनङ्गोऽङ्गरहितः । अत एव नलस्य दृशा नेत्रव्यापारेणैव श्रुतिचुम्बिनापागसंचारिणा कटाक्षरूपेण कर्णपूर्णेनेपुणा कृत्वा स्मरः परस्य नलस्यैव दृगादिभिरङ्गैरवयवैः धन्वितां धनुर्धरत्वमनुकल्प्य जनीं भैमीमार्दयदपीडयत् । किंभूतः स्मरः-करे नलस्यैव हस्ते रेखामयराज्यलक्षणरूपचक्रच्छलेन नम्रं चक्राकारं कार्मुकं यस्य सः। नलेक्षिता सती कामातुरा जातेति भावः । मुख्याङ्गाभावे चानुकल्पोऽप्यङ्गीक्रियते । आर्दयत्, ‘अर्द हिंसायाम्' ण्यन्ताल्लङ् । 'आर्दिदत्' --- पाठे लुङ्॥

उत्कण्टका विलसदुज्ज्वलपत्रराजि-
 रामोदभागनपरागतराऽतिगौरी।
रुद्रक्रुधस्तदरिकामधिया नले सा
 वासार्थितामधृत काञ्चनकेतकी वा ॥ ११०॥