पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५२
नपयायचरिते

 उत्कण्टकेति ॥ मा भैमी रुद्रक्रुधः रुद्रकृतशापपरित्यागसमुद्भवात्कोपाद्धेतोः तस्य रुद्रस्यारिः कामः तस्य बुद्ध्या अयं काम एवेति बुद्ध्या नले विषये वासस्य स्वयंवरेण स्थितेरथितामभिलाषुकत्वमधृत दधार । नले साभिलापा जातेति भावः । स्वशत्रुसमाश्रयणं च युक्तम् । केव-काञ्चनकेतकीव । किंभूता सा केतकी च-उत्कण्टका उदितरोमाञ्चा ऊर्ध्वीभूतसूर्चातुल्यशूकाग्रा च । तथा-विलसन्ती शोभमाना नीलपी- तादिभिर्वर्णैरुज्ज्वला प्रकाशमाना, उज्जवलेन शृङ्गारेण वा प्रकाशमानो विलोककानां शृङ्गारो यया एवंभूता वा, कस्तृर्यादिरचिता कपोलवक्षोजादौ पत्रराजिः पत्रवल्ली पत्रपङ्क्तिर्यस्याः । शोभमानोज्ज्वलवर्णपर्णपङ्क्तिश्च यस्याः। तथा-आमोदं विलेपनजं सुरभिगन्ध हर्षं वा, स्वाभाविकं परिमलं च भजतीति भाक् । तथा-अपगतोऽनुरागो यस्याः एवंभूता न भवति अतितरामनपरागतरा । नलेऽतितरामनुरागिणी । न विद्यते परागः पुप्परजो यस्याम् । एवंविधा न भवति । नितरामनपरागा अनपरागतरा । अतितरां परागसहिता। तथा-अतितरां गौरी गौरवर्णा उभय्यपि । गौरीं पार्वतीमतिक्रान्ता वा भैमी । सुवर्णकेतकी यथा रुद्रकोपस्य वसत्यभिलाषुकत्वं दधार तस्य स्थानं बभूवेत्यर्थः । तथा भैम्यपि नलविषये नलवैरिकामवुद्ध्या नलशत्रुः काम एव नलसंबन्धित्वेन मां पीडयतीति धिया रुद्रकोपस्यात्मनि यो वासस्तदर्थितां दधार रुद्रकोपस्य स्थानं जाता नितरां सकोपा जातेत्यर्थः । कामसाम्यं नलस्योक्तम् । नलेन कटाक्षवीक्षणे कृते साऽतितरां कामपीडिता जातेति भाव इति वा । गौरीमतिकान्तेति तत्पुरुषे 'गोस्त्रियोरुपसर्जनस्य' इति हस्वप्राप्तेरतिगौरिरिति स्यात् । तथापि कृदिकारादक्तिनः' इति न्यायेन ह्रस्वान्तादपि पक्षे ङीपि अतिगौरीति संगच्छते ॥

तन्नालीकनले चलेतरमनाः साम्यान्मनागप्यभू-
 दप्यग्रे स्थितान्न चतुरा पातुं दृशा नैषधान।
[१] आनन्दाम्बुनिधौ निमज्ज्य नितरां दूरं गता तत्तला-
 लंकारीभवनाज्जनाय ददती पातालकन्याभ्रमम् ॥ १११ ॥

 तदिति ॥ न अलीको नालीकः स चासौ नलश्च नालीकनलः सत्यनलः तस्मिन्नदृष्टः वशघटितदुर्घटदर्शने सत्यनले चलेतरत् निश्चलं मनो यस्याःसा तत्रैवानुरक्ता सतीसा भैमी अग्रे स्थितानपि चतुरश्चतुःसंख्याकानलीकान्नैषधान्नलान् साम्यात्सत्यनलसाम्येन दृशा नयनव्यापारेण पातुं कटाक्षैर्विलोकयितुं मनागल्पमपि चतुरा कुशला नाभूत् । किंभूता-आनन्दाम्बुनिधावानन्दरूपे समुद्रे निमज्ज्य क्री(बु)डित्वा नलावलोकनानिश्चला भूत्वेति यावत् । नितरां दूरं गता हर्षस्य परमकाष्ठां प्राप्ता तलं गता च । तथा-तस्य आनन्दसमुद्रस्य तलं तस्यालंकारीभवनाज्जनाय पातालकन्याभ्रमं अतिसौन्दर्यादानन्दद्वशाच निनिमेषतया समुद्रे निमज्ज्य तलगमनेन च किमियं नागकन्येति भ्रमं बुद्धिं ददती जनयन्ती । 'अलंकारीभवते' इति पाठे तस्य तलस्य भूतलस्योपवेश-


  1. सर्वतोऽक्तिन्नर्थात्' इति तचितम् ।