नेन अलंकारभृतायेन्द्रादिलोकान्य नललक्ष्णाय जनाय या ! पातालतलस्यालकारीभवते वासुकादिनागलोकाया वा । पुरर्गम्यतान्नलाकारानयोन्द्रादीनत्यराजवत् ऋजुदृष्ट्यैव विलोकयति स्म । अदृष्टवशाश्च व्यर्वाहतमयि सत्यनलं कटाक्षैर्विलोकयति स्मेति भावः। 'तन्नल-' इति पाठे तषामलीकनलानां स्नवीयेन रूपेणालंकारभृताय जनाय । सत्यनलायत्यर्थः ॥
सर्वस्वं चेतसस्तां नृपतिरपि दृशे प्रीतिदायं प्रदाय |
सर्वस्वमिति ॥ स नृपतिः नलोऽपि चेतसः सवस्वं प्राणवप्रियां तां भैमीं दृशं स्वनेत्राय प्रीतिदायं संतोषजनितं दानं प्रदाय प्रकर्षेण दत्त्वा कटाक्षेण तां सादरं दृष्ट्वा अमरदुरापामिन्द्रादिभिर्दुर्लभां लोकोत्तरस्वरूपाम् । अथ च तेषां कटाक्षेणानवलोकनात्तैर्दुरापाम् । अपाङ्गे नेत्रप्रान्ते उत्तरङ्गां चलत्कल्लोलामतिचञ्चलां कटाक्षरूपां तदृष्टिं भैमीदृष्टिमेव इष्टातिथिं प्रियमभ्यागतं प्रापल्लेभे । भैम्या पूर्वं कटाक्षैर्विलोकितः, अनन्तरं तेन साऽवलोकिता, अनन्तरं पुनरपि तया विलोकित इत्यर्थः । अनन्तरं च रत्याः पत्या कामेन पीयूषधारारूपमतिनिर्वापकत्वादमृतरूपं यद्वलनं भैमीकृतं वलितग्रीवमवलोकनं तेन कृत्वा विरचितेनाशुगेन भैमीकटाक्षरूपेण बाणेन आशु शीघ्रं लोढी विद्धः स नलः तस्या भैमीदृष्टेरपरेऽन्ये तृतीयादयो ये आकृतपाता अनेकभावाभिव्यञ्जका व्यापारविशेषास्तान् आनन्दान्ध्येन हर्षाश्रुपरिपूर्णनेत्रतया यदान्ध्यमदर्शनं तेन बन्ध्यान्निष्फलानकृत । भैमीद्वितीयकटाक्षवीक्षणेनैव अतितृप्तः कामविवशः सन् तस्याः तृतीयादिकटाक्षनिरीक्षणानि न ददर्शेति भावः । अन्योऽपि तुष्टः कस्मैचित्सर्वस्वं ददाति । प्रियं चातिथिं प्राप्यानन्दवाप्पाम्बुपूणौ भवति ॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं |
श्रीहर्षमिति ॥ माता वागीश्वरी जननी च तस्याश्चरणौ एवाम्भोजे तयारालरूपा भ्रमररूपो मौलिर्य॑स्य । यद्वा-मातृचरणसंबन्धिनी पूजार्थं चरणयोरुपढौकिता अ-.