पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५५
त्रयोदशः सर्ग:

भवति । किंभूता साक्षात्कृतं अखिल्जगतां जनताचरित्रं जनसमूहवृत्तान्तं यया मा । यथा इन्द्रादीनां प्राकट्यं न विषण्णांराज्ञया वर्णनं च मानित्वं प्रतिभाक्ष्यं न,तथावोचदिति भावः । साक्षादिति विशेषणेन नलरूपं कृत्वागतानामिन्द्रादीनां ज्ञानौचित्यं सूच्यते ॥

ब्रूमः किमस्य वरवर्णिनि वीरसेनो-
 द्भूतिं द्विषद्वूल विजित्ररपौरुषस्य ।
सेनाचरीभवदिभाननदानवारि-
 वासेन यस्य जनितासुरभीरणश्रीः ॥ ३ ॥

 बृम इति ॥ हे वरवर्णिनि उत्तमे भैमि, वयं अमुप्येन्द्रस्य वीरयुक्तायाः वीराणां वा सेनायाः सैन्यस्योद्भूतिमु त्कृष्टेश्वर्यं सामर्थ्यं वाहुल्यं वा किं ब्रूमौ वर्णयामः वर्णनाशक्यवाद्वागगोचर इत्यर्थः । किंभूतम्य-द्विपन् अमित्रो यो बलनामा दैत्यः तस्य विजित्वर्ं जयनशीलं पौरुषं पराक्रमो यस्य । यस्य रणश्री सेनाचरीभवन्तौ सैनिकौ भवन्तौ याविभाननदानवारी गणेशनारायणौ तयोर्वासनाधिष्ठानेन कृत्वा जनिता कृत असुरभीर्दत्यभयं यया । असुरेभ्यो देवानां या भीः तस्या ईरणं क्षेपणं तेन या श्रीः सा यस्य जनितेति वा । वागगोचरोऽस्य चरितमित्यर्थः॥

 नलपक्षे तु-अस्य वीरसेनाख्यनृपादुत्पत्तिं किं कथयामः । अपि तु न । अकथनेऽपि लोकत्रये प्रसिद्धत्वात्स्वगुणैरेवास्य ख्यातत्वाद्वा । यो हि स्वयं न प्रसिद्धः, तस्य पित्रादिप्रसिद्ध्या वर्णनं क्रियते । अयं तु न तथेति भावः । किंभूतस्य-द्विषतां वलस्य सेन्यस्य, आङ्गिकस्य सत्त्वस्य वा, जित्वरं पौरुषं पराक्रमो यस्य । यस्य रणधीः सेनाचरीभवन्तः सैनिका इभास्तेषामाननदानवारि भुखदानोदकं तस्य वासेन गन्धेन सुरभिर्ज- निता । रलयोः सावर्णात् सेनायामचलीभवतां पर्वतायमानानामिभानामिति वा । मत्तगजबाहुल्यमनेन सूच्यते । एवमिन्द्रनलयोरभेदबुद्धिर्यथा तस्या भवति, तथा देव्योक्तम् । रणशब्दो लक्षणया रणभूमौ वर्तते । इतः श्लोकादारभ्य अत्याजि-' (१३।२८) इति यावत्प्रथममिन्द्रादिवर्णनं पश्चान्नलवर्णनम् । 'अत्याजि-' इत्यादौ नलवर्णनं प्राथम्येन, दिक्पालवर्णनं पश्चादिति ज्ञेयम् । श्लोकादिह प्रथमतः-' (१३।३२) इति श्लोकेन नलस्य प्राधान्येन निर्देशात् । 'हरिणा' (१३।३२ श्लोके) इत्यादितृतीयया दिक्पालानामप्राधान्येन निर्देशात् । 'यौवनोष्मवती शीते शीतस्पर्शा च यातपे । भर्तृभक्ता च या नारी सोच्यते वरवर्णिनी' इति वृद्धाः । 'उत्तमा वरवणिनी' इत्यमरः। वरो वर्णो यस्या इत्यतिशायने 'धर्मशीलवर्णान्ताञ्च' इतीनिः ॥

शुभ्रांशुहारगणहारिपयोधराङ्क-
 चुम्बीन्द्रचापखचिताद्युमणिप्रभाभिः ।
अन्वास्यते समिति चामरवाहिनीभि-
 र्यात्रासु चैष बहुलाभरणार्चिताभिः ॥ ४॥

"