पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५६
नैषधीयचरिते

 शुभ्रेति ॥ एष इन्द्रः समिति च यात्रासु विलासगतिषु च दण्डयात्रासु वा अमरवाहिनीभिः सुरसेनाभिरन्वास्यतेऽनुगम्यते । किंविधाभिः-शुभ्रांशुश्चन्द्रः, हरसंबन्धिनो हारा एकादश रुद्रास्तेषां गणः समूहः हरसंबन्धिनो वा ये गणा नन्दिप्रभृतयः, तान्सर्वानपि हरन्ति आत्मना सह नयन्ति। तत्सहिता इति यावत् । एवंविधाः पयोधरा मेघाः। हरस्यापत्यं हारिः स्कन्दो गणपतिः, मेघाश्चेति वा । तेषामङ्कचुम्बी स्वामित्वान्मध्यवर्ती (यः) इन्द्रः । शुभ्रांशुहारगणान्हरति आत्मना सह नयति एवंशीलः, पयोधराङ्कचुम्बी च एवंविधो वा य इन्द्रस्तस्य चापं तेन खचिता संबद्धा द्युमणिप्रभा सूर्यशोभा यासु ताभिः । शुभ्रांश्वादिभिः शक्रधनुर्व्याप्तेन सूर्येण च भान्ति ताभिर्वा । तथा- -बहुःप्रचुरो लाभो धनादिप्राप्तिर्येषु तेषु रणेष्वर्चिताभिः पूजिताभिः । दैत्यजयाह्बहुला आभा दीप्तिर्यासां ताश्च ता रणार्चिताश्चेति वा । मेघानामपि कामरूपत्वात्सैनिकत्वं युज्यते । चन्द्रादिभिः विशिष्टेन्द्र चापेन च खे आकाशे चिता वृद्धि प्रापिता सूर्यशोभा यास्विति वा । तैः कृत्वा वृद्धिं प्राप्ता वा । चन्द्रादयस्तेजस्विनः तत्तेजः संबन्धेन सूर्य- तेजः प्रचुरं यत्र जातमित्यर्थः॥

 नलपक्षे-एष नलः सभायां दण्डयात्रासु च चामरधारिणीभिरन्वास्यते सेव्यते । किंभूताभिः-शुभ्राः सिताः अंशवो यस्य तेन हारगणेन मुक्ताहारसमूहेन कृत्वा हारी सुन्दरः पयोधराङ्कः स्तनमध्यः तञ्चुम्बिनी तत्संबद्धा इन्द्रचापसंबद्धसूर्यप्रभेव प्रभायासां ताभिः । चोप्यर्थः । यात्रास्वपीति योजना । हारमध्यमणीनामनेकवर्णत्वादिन्द्रचापसंबद्धसूर्यप्रभासाम्यम् । तथा- अत एव बहुलानि प्रचुराणि आभरणानि तैरचिताभिरलंकृताभिः । प्राधान्याद्धाराणां ग्रहणं, आभरणग्रहणं तद्यतिरिक्तालंकाराणां, अतो न पौनरुक्त्यम् । एतेन यथा सभायां निर्भय आस्ते तथा संग्रामयात्रास्वपीति व्यज्यते । 'शुभ्र उद्दीप्तशुक्लयोः', 'द्युमणिस्तरणिर्मित्रः', 'समिद्युधः' इत्यमरः । हरशब्दात् 'तस्येदम्' इत्यण् । हारि, ताच्छील्ये णिनिः। अपत्ये वा 'अत इञ्' । यद्वा-शुभ्रांशुहारगणेन हारिणः पयोधराः स्तना मेघास्तेषामङ्कः पार्श्वप्रदेशस्तञ्चुम्बी इन्द्रचापो नखपदविशेषः तेन संबद्धा दिव्यरत्नप्रभा यासां ताभिः । इन्द्रचापवदाकाशव्याप्ता दिव्यमणिप्रभा यासां ताभिरिति वा । चित्रमणिप्रभासंवलिताः शक्रधनुःसदृशा भवन्तीति बहुलैराभरणभूषिताभिरित्यर्थः । 'खच दीप्तिसंवरणयोः'।

[१]

क्षोणीभृतामतुलकर्कशविग्रहाणा-
 मुद्दामदर्पहरिकुञ्जरकोटिभाजाम्।
पक्षच्छिदामयमुदग्रबलो विधाय
 मग्नं विपजलनिधौ जगदुज्जहार ॥ ५॥

 क्षोणीति ॥ [२] अयं क्षोणीभृतां पर्वतानां पक्षच्छिदां विधाय कृत्वा विपज्जलनिधावापसमुद्रे मग्नं जगदुज्जहार उच्चकर्षेत्यर्थः। पर्वतपक्षच्छेदनाद्विपद्रहितं कृतवानिति भावः।


  1. इति पद्यं क्वचित्पुस्तके दृष्टम् । तस्यायमर्थः ।
  2. इतः परं 'पक्षसहितैः पर्वतैः श्लक्ष्णीकरणात्' इति मुद्रित पुस्तकेऽधिकः पाठः ।