पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६०
नैषधीयचरिते


 अत्यर्थेति ॥ हे रुचिरकणि शोभनश्रवणेन्द्रिये भैमि, अस्याग्नेः अत्यातिशयिता हेतिपटुता ज्वालापाटवं तस्य कवलीभवन्ति ग्रासीभवन्ति तानि तानि पार्थिवानि पृथिवीकार्याणि तृणकाष्टकरीषादीनि तान्येवाधिकरणं भस्मन एवाधारः ततः प्रभव उत्पत्तिर्यस्या एवंविधा भूतिर्भस तपस्विनोऽपि पाशुपतादिव्रतनिष्ठस्य महेश्वरस्य शिवस्याङ्गरागजननायोलनेनाङ्गानां विशिष्टवर्णोत्पत्तये संजायते संपद्यते । एतत्संबन्धि भस्मापीश्वरस्य तपस्विनोऽप्युपकृत्यै प्रभवति । अन्यस्य भवतीति किं वक्तव्यमिति स्तुतिः । रुचिरकर्णीति श्लेषोक्तिचातुरीविषये सावधाना भव इति व्यज्यते । एतद्धरणे भस्मैव केवलम् , नान्यदिति विचार्य वृणीष्वेति व्यज्यते ॥

 नलपक्षे-अङ्ग रचिरकर्णि, अस्य नलस्य भूतिः संपतू महेश्वरस्य महाधनिकस्यापि त्यक्तसर्वसङ्गस्य मुनेरपि च अभिलाषसमुद्भूतये संपद्यते । ममेहक संपद्भूयादिति धनिको मुमुक्षुश्चाप्यस्य भूतेय स्पृहयतीत्यर्थः । धनिकस्य तपस्विनोऽपि ईर्ष्याजननाय संपद्यत इति वा । किंभूता संपत्-अतिशयेनास्त्रपटुतया मोक्षोपसंहारादिमन्त्रप्रयोगसामर्थेन ग्रासीभवन्तस्ते ते च पृथ्वीश्वराश्च तेषामधिको रणस्तस्मादुत्पन्ना । स प्रभव उत्पादको यस्या इति वा । क्षत्रतेजसोपार्जितेत्यर्थः । 'रागोऽनुरक्ते मात्सर्ये । हेतिर्ज्वाला आयुधं च । पार्थिवेति, 'ईश्वरः' इत्यधिकारे 'सर्वभूमि-' इत्यण । पक्षे संबन्धेऽण् । रुचिरकर्णीति 'नासिकोदर-' इति ङीष् ॥

एतन्मुखा विबुधसंसदसावशेषा
 माध्यस्थ्यमस्य यमतोऽपि महेन्द्रतोऽपि ।
एनं [१]महस्विनमुपेहि सदारुणोच्चै-
 र्येनामुना पितृमुखि ध्रियते करश्रीः ॥ १२ ॥

 एतदिति ॥ हे पितृमुखि, अशेषा सर्वा असौ विबुधसंसद्देवसभा एष मुखं यस्याः सा। 'अग्निमुखा वै देवाः' इति श्रुतेः। अस्याग्नेर्यमतोऽपि महेन्द्रतोऽपि माध्यस्थ्यमासनापेक्षया दिगपेक्षया च मध्ये विद्यमानत्वमस्ति । त्वं महस्विनं तेजोयुक्तं महस्सु तेजस्सु विषये इनं स्वामिनं वा एनमुपेहि । येन सदारुणा काष्ठसहितेनासुना करश्रीः किरणशोभा उच्चैरूर्ध्वा; रक्ता च ध्रियते । पितृमुखीति संबुद्ध्या धन्यत्वं व्यज्यते । 'धन्या पितृमुखी कन्या धन्यो मातृमुखः सुतः' इति सामुद्रिकोक्तेः ॥

 नलपक्षे-असौ जगति प्रसिद्धा पुरो दृश्यमाना च निखिला विद्वत्सभा एतन्मुखा एतत्प्रधाना । यथा सर्वेष्वङ्गेषु मुखं प्रधानं तथा विद्वत्सभायामसौ । 'के विबुधाः' इति पृष्टे प्रथममसौ गण्यत इत्यर्थः । पुण्यश्लोकत्वादेष मुखे यस्यास्तादृशी इति वा । अस्य यमतः समर्तिनोऽपि इन्द्रादप्यधिकं माध्यस्थ्यं पक्षपातरहितत्वम् । शत्रुमित्रयोस्तुल्यो दण्ड इत्यर्थः । तसेः सार्वविभक्तिकत्वात् । लोकपालांशत्वादिन्द्रयमयोरेतन्म-


  1. 'महस्सु इनम्' इति पक्षे सकारद्वयश्रवणार्थ पक्षान्तरेऽपि द्वित्वं कर्तव्यम् । यद्वा-'न व्यञ्जनपरस्यानेकस्यैकस्य वा हलः श्रवणं प्रति विशेषोऽस्ति' इति 'दीडो युट्-' इति सूत्रे भाष्योक्त्या द्वित्वमन्तराऽपि न
    दोषः' इति बोध्यम् ।