पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
प्रथमः सर्गः

बले हे शूर, त्वं प्रतीच्छ मदीयं शस्त्रं स्वाङ्गे गृहाण, प्रहर मयि प्रहारं कुर्विति भाषिणी वदन्ती । तथा-परस्परोपर्युल्लासिता उद्गूर्णाः न तु क्षिप्ताः शल्यानां शस्त्राणां पल्लवाः प्रान्ता याभ्याम् । अत एव मृषा । पल्लवः प्रान्तवाची वस्त्रपल्लववत् । नलस्य कौतूहलादिति वा । शल्यं सतोमरं शस्त्रम् । 'सेनामुखं तु नासीरम्' इत्यमरः । परस्परेत्यत्र कस्कादित्वात्सः॥

प्रयातुमस्माकमियं कियत्पदं धरा तदम्भोधिरपि स्थलायताम् ।
इतीव वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुद्धतं रजः ॥ ६९ ॥

 प्रयातुमिति ॥ निजेन स्वकीयेन वेगेन जवेन प्रयोजकेन दर्पितैर्गर्वं प्रापितैर्वाहैरश्वैरितीव मनसि धृत्वा, इति हेतोर्वा रज उद्धतमुत्थापितम् । इतीति किम्-इयं धरा पृथिव्यस्माकं धावतामश्वानां कियत्पदं स्यात्, अपितु द्वित्राणि पदानि भविष्यन्तीति । यस्मादत एव प्रयातुं प्रकर्षेण यातुं गन्तुमम्भोधिरपि समुद्रोऽपि स्थलायतां स्थलमिवाचरतु भवतु । किंभूतं रजः-पयोधेः समुद्रस्य रोधः पूरणं तत्र क्षमं समर्थम् । प्रयातुमित्यस्य स्थलायतामित्यनेन संबन्धः । दर्पितैरिति ण्यन्तान्निष्ठा । अन्यथा श्यन्विकरणस्य दृप्त इति स्यात् । शब्विकरणस्य तु दृपित इति ॥

हरेर्यदक्रामि पदैककेन खं पदैश्चतुर्भिः क्रमणेऽपि तस्य नः ।
त्रपा हरीणामिति नम्रिताननैर्व्यवर्ति तैरर्धनभःकृतक्रमैः ॥ ७० ॥

 हरेरिति ॥ इति विचार्य, हेतोर्वा नम्रिताननैः नम्रितं नम्रीकृतमाननं मुखं यः, अर्धेन पूर्वार्धेन नभस्यन्तरिक्षे कृतः क्रमः पादविक्षेपो यैस्तैरश्चैर्न्यवर्ति निवृत्तम् । अर्धे नभसीति वा । इतीति किम्--यत् खं नभो हरेर्विष्णोरेककेनासहायेन पदा चरणेनाक्राम्याक्रान्तं तस्य खस्य नभसश्चतुर्भिरेव पदैश्चरणैः क्रमण आक्रमणे नोऽस्माकं हरीणामश्वानाम्, अथवा विष्णूनाम् । बहूनामस्माकं त्रपा लज्जा भविष्यतीति । यस्मादस्मज्जातीयेनैकेन हरिणा एकेनैव पादेन यदाक्रान्तं नभस्तस्य बहुभिरस्माभिर्बहुभिः पदैराक्रमणे नोऽस्माकं महती लज्जा कथं न स्यादिति हरिशब्दच्छलेन लुप्तोत्प्रेक्षा । सलज्जश्च नम्रमुखो भवति । अर्धनभःकृतक्रमैरित्यनेन गतेरुत्तमत्वं सूचितम् । तेन सादिनामानन्दोऽरीणां भीतिश्च । 'नोदात्तोपदेशस्य मान्तस्यानाचमेः' इति वृद्धिनिषेधात् अक्रामि इति चिन्त्यम् । 'सकृद्बद्धमबद्धं भवति, द्विर्बद्धं सुबद्धं भवति' इति तदो दावचनज्ञापितया परिभाषया वृद्धिनिषेधस्यानित्यत्वमाश्रित्य कथंचित्परिहरणीयम् । यदा तु 'तदो दा च' इत्यत्र स्वरार्थं दा इति प्रत्यय इति पक्षस्तदैतस्याः परिभाषाया निर्मूलत्वाच्चिन्त्यमेव । यद्वा--'प्राग्दिशो-' इति थमो विभक्तित्वात् 'न विभक्तौ-' इत्यनेनैव मकारस्येत्संज्ञानिषेधे सिद्धे 'इदमस्थमुः' इत्युकारोच्चारणं व्यर्थं सदेतस्याः परि-


१. 'अनुप्रासोपमालंकारः' इति साहित्यविद्याधरी। २ 'अत्रानुप्रासोऽलंकारः' इति साहित्यविद्याधरी।