पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६१
त्रयोदशः सर्गः

ध्यवर्तित्वमिति केचित् । तेजस्विनमेनं प्राप्नुहि । येनानेन सदा सर्वदा हस्तशोभा अतिशयेनारुणा रक्ता धार्यते । स्विनं शोभनं पतिमेनं मह पूजय । तथा-एनमुपेहि एतसमीपं गच्छेति वा । महस्विनमुत्सववन्तं वा । विश्वप्रकाशे सकारान्तस्य महःशब्दस्य पाठात् । 'मुखं मुखे च वक्रे स्यात्' इत्यजयपालः । पिता मुखं यस्या इति समासः। मुखेनैव मुखस्य सादृश्यात्पितृमुखमिव मुखं यस्या इत्यत्र पर्यवस्यति ॥

नैवाल्पमेधसि पटो रुचिमत्त्वमस्य
 मध्येसमिन्निवसतो रिपवस्तृणानि ।
उत्थानवानिह पराभवितुं तरस्वी
 शक्यः पुनर्वति केन विरोधिनायम् ॥ १३ ॥

 नैवेति ॥ एधसि काष्ठे पटोर्जाज्वल्यमानस्याग्नेः रुचिमत्त्वं दीप्तियुक्तत्वमल्पं नैव । किंतु बह्नित्यर्थः । जाज्वल्यमानस्यास्य इन्धने दीप्तिमत्त्वमल्पं नैव । तत्संबन्धादधिकं दीप्तिमानयं भवतीत्यर्थ इति वा । तथा-मध्येसमित् समिधां काष्ठानां मध्ये निवसतो विद्यमानस्यास्य तृणानि शत्रवः। रिपुनाशो यथा वेगेन क्रियते, तथा समृद्धेनानेन क्षणमात्रेण तृणानि दह्यन्त इत्यर्थः । प्रादेशमात्राणां पलाशशम्यादिकाष्ठानां मध्ये इति वा । इह लोके समिन्मध्ये वोत्थानवानूर्ध्वज्लनवान् तरस्वी वेगवानयं विरोधिना केनोदकेन पुनः पराभवितुं शक्यो भवति । तेनैव शान्तिर्नान्येनेत्यर्थः । जय्यो भवति । अपितु न । वेगेनोत्थितस्यास्य वारिणापि शान्तिः कर्तुमशक्येत्यर्थ इति वा ॥

 नलपक्षे-पटोः ग्रहणधारणादिसमर्थस्यास्य अल्पमेधसि मन्दप्रज्ञे रुचिमत्त्वं प्रीतियुक्तत्वं नैव । अयोग्यत्वात्तस्येत्यर्थः । तथा-समिन्मध्ये सङ्ग्राममध्ये निवसतोऽस्य वैरिणस्तृणानि । अकिंचित्करा इत्यर्थः । इह रणे भूलोके वा तरस्वी उत्थानवान्वेगवान्बलवान्वा अयं केन पुना रिपुणा जेतुं शक्यः । अपि तु न केनापि । कस्याप्यजय्योऽयमित्यर्थः । उत्थानमुदयः । एतत्सदृक्कोप्युदयी बलवांश्च नास्तीत्यर्थः । भवतीति संबोधनं वा । 'तरो बले च वेगे च', 'इध्ममेधः समित्' इत्यमरः। अल्पमेधसि, 'नित्यमसिच्-' इत्यत्र नित्यग्रहणादन्यस्मादपि भवतीति वृत्तिकारोक्तेः प्रयोगानुसारेणासिच् । मध्येसमित्, ‘पारेमध्ये षष्ठ्या वा' इत्यव्ययीभावे निपातनादेत्वम् । ‘झयः' इति वैकल्पिकत्वादजभावः । पराभवितुं, 'शकधृष-' इत्यक्रियार्थत्वेपि शकियोगे तुमुन् ॥

साधारणी गिरमुषर्बुधनैषधाभ्या-
 मेतां निपीय न विशेषमवाप्तवत्या ।
ऊचेनलोऽयमिति तं प्रति चित्तमेकं
 ब्रूते स्म चान्यदनलोयमितीदमीयम् ॥ १४ ॥

 साधारणीमिति ॥ उषर्बुधनैषधाभ्यामग्निनलाभ्यां साधारणीं समामेतां गिरं निपयाकर्ण्य इदमीयमनयोः संबन्धिनं विशेष तारतम्यं नावाप्तवत्या ज्ञातवत्या भैम्याः पु-