पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६३
त्रयोदशः सर्गः।

अहो आश्चर्यम् । अन्यो यष्टिं धारयति अन्यस्य च कम्पमानस्य कर्दमपातो न भवतीत्यसंगतेः। तथा चिकित्सासमर्थयोः स्वर्वैद्ययोर्दस्रयोरपि मदव्ययदायिनीभिः गर्वक्षयं कुर्वाणाभिः एतस्य रुग्भिः प्राणिकर्मविपाकदर्शनेनानेन प्रेरिताभिः पीडाभिः न म्रियत इत्यमरः कश्चित्किमस्ति । अपितु न कोप्यस्ति । कर्मजरोगाणां ताभ्यामप्यचिकित्स्यत्वादित्यर्थः । स्वर्वैद्ययोरिति नाम रुजापनयनसामर्थ्यसंभावनासूचनार्थम् ॥

 नलपक्षे-अयं नलो दण्डं शासनं यतो बिभर्ति तस्मात्कम्पाकुलस्य सकलस्यापि लोकस्य एनःपातो न भवेत्पूर्ववदेतस्माद्भयात् । अयं दण्डं चतुरङ्गसैन्यं बिभर्ति ततः शत्रुभयात्कम्पाकुलस्य लोकस्य दुःखपातो न भवेत् । सैन्येनैव वैरिणां निहतत्वाल्लोकस्य दुःखनाश इति वा । सौन्दर्येण प्रसिद्धयो सत्ययोरपि गर्वक्षयकारिणीभिरतस्य रुग्भिः कायकान्तिभिरुपलक्षितो देवोऽपि कश्चिदस्ति किमु । अपितु नास्ति । देवेषु मध्ये दस्रावेव सुन्दरतमौ तावप्यनेन जितौ यतः । ये त्वेतत्समीपस्था रमणीयाः, त एतद्रूपधारणादेव, न तु स्वभावेनेत्यर्थः । ‘पकोऽस्त्री शादकर्दमौ', 'अस्त्री पङ्कं पुमापाप्मा', 'स्त्री रुग्रुजा', 'स्युःप्रभारुगू' इति चामरः। दायिनीभिरिति ताच्छील्ये णिनिः॥

मित्रप्रियोपजननं प्रति हेतुरस्य
 संज्ञा श्रुतासुहृदयं न जनस्य कस्य ।
छायेदृगस्य च न कुत्रचिदध्य[१]गायि
 तप्तं यमेन नियमेन तपोऽमुनैव ॥ १७ ॥

 मित्रेति ॥ अस्य यमस्योपजननमुत्पत्ति प्रति संज्ञानाम्नी मित्रप्रिया सूर्यपत्नी हेतुर्निमित्तं श्रुता आकर्णिता । छायानाम्नी तु कुत्रचित् कुत्रापि पुराणादौ ईदृगस्योत्पत्तिं प्रति हेतुःनाध्यगामि(यि) नाश्रावि । किंतु शनैश्चरस्यैवेत्यर्थः। यमो यमी श्राद्धदेवः संज्ञायास्तनयास्त्रयः' इति पुराणम् । अयं यमः कस्य जनस्यासुहृत्प्राणहर्ता न । अपितु सर्वस्यापि प्राणहर्ता । अमुना यमेनैव नियमेन नक्तोपवासादिव्रतेन तपः तप्तं धर्मः कृतः। अत एवास्य पुत्रत्वं धर्मराजत्वं चेत्यर्थः॥

 नलपक्षे-अस्य नलस्य संज्ञा नाम श्रुता सती मित्रप्रियस्य सुहृदिष्टस्योपजननं प्रत्युत्पादनं प्रति हेतुः । अस्य संज्ञा सुहृदिष्टजननं प्रति हेतुः श्रुता ख्यातेति वा । पुण्यश्लोकत्वात् । अयं कस्य जनस्य सुहृन्मित्रं न । अपि तु सम्यक्परिपालनादुपकारित्वाद्वा सर्वस्यापि सुहृदेव । ईदृक्प्रत्यक्षदृश्या अस्य छाया कायकान्तिः कुत्रापि नरसुरोरगेषु नाध्यगामि (यि) न दृष्टा । 'सुन्दरतरोऽयमित्यर्थः । छाया रीतिः लोकपरिपालनमित्यर्थ इति वा । अस्येव जगत्पालनं कोपि न करोतीत्यर्थः। अमुना नलेनैव यमेन ब्रह्मचर्यादिना, नियमेन नक्तादिव्रतेन च तपः तप्तम् । त्वदर्थमिति शेषः। 'छाया स्यादातपाभावे प्रतिविम्बार्कयोषितोः' 'तपश्चान्द्रायणादौ स्याद्धर्मे' इति विश्वः । अध्यगामी(यो)ति इङो गाङा देशे कर्मणि चिण् । यमेनेति पक्षे हेतौ तृतीया ॥


  1. अध्यगामीति पठित्वाऽधिगतेति व्याख्यातं जीवातौ।