पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६४
 

किंच प्रभावलमिताखिलराजतेजा
 देवः पिताम्बरमणीरमणीयमूर्तिः ।
उत्क्रान्तिदा कमनु न प्रतिभाति शक्तिः
 कृष्णत्वमस्य च परेषुगदान्नियोक्तुः ॥ १८॥

 किंचेति ॥ केवलं संज्ञास्य जननीत्येव न । किंच अन्यच्च प्रभया दीप्त्यावनमितं तिरस्कृतमखिलं राज्ञश्चन्द्रस्य तेजो येन सः,तथा रमणीयमूर्तिरम्बरमणिः सूर्यो देवः अस्य पिता । अस्य यमस्योत्क्रान्तिनामिका । अथ च मरणदा । शक्तिरायुधविशेषः कमनु लक्षीकृत्य न प्रतिभाति समर्था न भवति । अपितु सर्वमनु समर्थैव । परेवन्येषु जनेषु गदान्रोगानियोक्तुः प्रेरयितुः अस्य कृष्णत्वं श्यामत्वं च । परपीडाजननेनापयश इत्यर्थः । अस्य कृष्णत्वं लोहवत्कठिनान्तःकरणत्वमित्यर्थ इति वा ॥

 नलपक्षे-प्रभावेण पराक्रमेण नमितसकलभूपप्रतापः,अम्बरमणिः सूर्यः, इः कामः तद्वद्रमणीयमूर्तिः, देवो राजा वीरसेनोऽस्य पिता । देवो विजिगीषुरिति वा । अम्बरमणीभिर्वस्त्ररत्नैः कृत्वा रमणीयमूर्तिरिति वा। मणीशब्द ईबन्तोऽपि।अम्बेति संबोधनम् । रमणीनां स्त्रीणां रमणयोग्या मूर्तिर्यस्येति वा । अस्य शक्तिरायुधविशेषः कं वैरिणमनूक्रान्तिदा मरणप्रदा न प्रतिभाति । अस्य शक्तिः सामर्थ्यं कं यममनूत्क्रान्तिदा मरणप्रदा न प्रतिभाति । अपितु संभाव्यत एव । यमादन्येषां भयं, तस्याप्यस्माद्भयम् । शूरत्वातिशयो द्योत्यत इति वा । तथा शत्रुषु गदां शस्त्रविशेषं प्रयोक्तुरस्य कृष्णत्वं देवकी- नन्दनत्वम् । गदायुद्धप्रावीण्याच्छ्रीकृष्णसमानत्वमित्यर्थः । परा उत्कृष्टा इषुसंबन्धिनो गदा रोगाः दुःसहबाणजनिताः पीडा इति यावत् । तानर्थाद्वैरिषु प्रयोक्तुरस्य कृष्णत्वमर्जुनत्वम् । बाणयुद्धप्रवीणार्जुनतुल्योऽयमित्यर्थ इति वा । 'राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्तयोः', 'को ब्रह्मात्मानिलार्केषु शमने सर्वनानि च', 'शक्तिर्बले प्रभावादी शक्तिःप्रहरणान्तरे' इत्यादि विश्वः॥

एकः प्रभावमयमेति परेतराजौ
 तज्जीवितेशधियमत्र निधत्स्व मुग्धे ।
भूतेषु यस्य खलु भूरियमस्य वश्य-
 भावं समाश्रयति दस्रसहोदरस्य ॥ १९ ॥

 एक इति ॥ अयं एकः परेताः प्रेतास्तेषां राजौ पङ्क्तौ विषये प्रभावं सामर्थ्यं एति तत्तस्मात् अत्रास्मिञ्जीवितेशधियमन्तकबुद्धिं कुरु । हे मुग्धे, उभयोर्भेदमजानाने संज्ञागर्भजातत्वाद्दस्रसहोदरस्याश्विभ्रातुः यस्य यमस्य भूतेषु भूरि प्रचुरं भूतं वश्यभावमधीनत्वं समाश्रयति प्राप्नोति । प्राणिषु मध्ये प्रचुरं भूतं यस्य यमस्य वशि वशवर्ति सत् अभावं विनाशमेवाश्रयतीति वा । मुमुक्षवः कतिपये, तदपेक्षया भूतानां प्राचु-