पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६६
नषधीयचरिते

या सर्वतोमुखतया व्यवतिष्ठमाना
 यादोरणैर्जयति नैकविदारकाया ।
एतस्य भूरितरवारिनिधिश्चमूः सा
 यस्याः प्रतीतिविषयः परतो नरोधः ॥२२॥

 येति ॥ एतस्य वरुणस्य भूरितरा वारिनिधयः समुद्रा यस्यां सा चमूर्जयति सर्वोत्कर्षेण वर्तते । सा का-यस्याः परतो रोधः परं तीरं प्रतीतिविषयो दृग्गोचरो न। सेनायां समुद्राणामपि मिलितत्वात्परं पारं न दृश्यत इत्यर्थः । सा का-या सर्वतोमुखस्य जलस्य आवेन व्यवतिष्ठमाना व्यवस्थिता । जलमयीत्यर्थः । या यादोरणैर्जलज- न्तुशब्दैस्तत्सङ्ग्रामैर्वा उपलक्षिता । तथा—या नैकविदारका अनेककूपका । नैकान्विदारयति नैकविदारः कस्य उदकस्य आय आगमनं यस्यां सा। स्ववेगेन सर्वनाशकरमुदकं यस्यामस्तीत्यर्थ इति वा । या नैकविदारं कं यस्यामेवंभूता वा । यस्याः परतो वैरिणोऽऽन्यस्माद्वा रोध आवरणं न ज्ञानगोचरः । निम्नाभिमुखस्य पयसः कस्यापि निवारयितुमशक्यत्वादिति वा । यस्याः परतः परप्रदेशात्प्रति संमुखमितिर्गमनं तस्य विषयो गोचरो नरो मनुष्य अधोऽधस्तादेव । प्रवाहवेगेनाध एव गच्छतीति भाव इति वा ॥

 नलपक्षे-एतस्य भूरीणां तरवारीणामेकधारयवनखड्गानां निधिः स्थानं सा चमूर्विजयते । या सर्वस्मादपि लोकात्सर्वसेनाभ्यो वा मुखतया श्रेष्ठतया व्यवतिष्ठते । मुखशब्दो लक्षणया श्रेष्ठवाचकः । सर्वतः सर्वदिक्षु मुखं यस्यास्तद्भावेन व्यवतिष्ठत इति वा । अनेनानेकदिग्व्यापित्वात्सेनायाः प्राचुर्यं सूच्यते । या दोरणैर्बाहुयुद्धैर्भुजास्फालनशब्दैर्वोपलक्षिता । दोरणैर्जयतीति वा । या अदोरणैरमुष्य सङ्ग्रामैः सिंहनादैर्वा जयति । सेनाजयेनास्य व्यपदेशो न । किंतु स्वयमेवासौ युद्धं कुरुते । तेनोभयथा नलवर्णने तात्पर्यम् । तथा-नैके विदारका योद्धारो यस्यां सा दोरणैः कृत्वा नैकविदारकः कायो यस्याः सेति वा । यस्याः परस्माच्छत्रोः सकाशाद्रोध आवरणं न ज्ञानगोचरः। केनापि रोढ्धुं न शक्यत इत्यर्थः । परस्मात्प्रतीतिविषयः संमुखमागच्छन्नरो मनुष्यः अधो हीन एवेति वा । 'पुष्करं सर्वतोमुखम्', 'कूपकास्तु विदारकाः', 'कायो देहः', 'कूलं रोधश्च' इत्यमरः । व्यवतिष्ठमानेति, 'समवप्रविभ्यः स्थः' इति तङ् । अत्र ग्रन्थभूयस्त्वभयाद्व्याकरणं न लिख्यते ॥

नासीरसीमनि धनध्वनिरस्य भूया-
 न्कुम्भीरवान्समकरः सहदानवारिः ।
उत्पद्मकाननसखः सुखमातनोति
 रत्नरलंकरणभावमितैर्नदीनः ॥ २३ ॥